________________
द्वितीयो भागः [ परि० २-का. २७]
४३१ प्रमाणविषयः ? तद्बाधकं पुनरर्थान्यथात्वसाधकमेव प्रमाणमनुभूयते इति वस्तु वृत्तमपेक्ष्यैवाविद्या निरूपणीया । न च कथञ्चिद्विद्यावतोऽप्यात्मनः प्रतिपत्तुरविद्यावत्त्वं विरुद्धयते, यतोऽयं महान् दोषः स्यात् । नाप्यविद्याशून्यत्वे कथञ्चिद्विद्यानर्थक्यं प्रसज्यते, तत्फलस्य सकलविद्यालक्षणस्य भावात् । न चाविद्यायामेव स्थित्वास्येयमविद्येति कल्प्यते, सर्वस्य विद्यावस्थायामेवाविद्येतरविभागनिश्चयात् स्वप्नाद्यविद्यादशायां तदभावात् । ततश्चात्मद्वारैवाविद्या युक्तिमती । यस्मादनुभवादविद्यावानहमस्मीत्यनुभववानात्मा तत एव कथञ्चित् प्रमाणोत्थविज्ञानाबाधिता तदविद्यापि सैवेत्यात्मताविरोधाभावात् । न चात्मनि कथञ्चिदविदितेप्यविद्येति नोपपद्यते, बाधाविरोधात् । कथञ्चिद्विज्ञातेऽपि वाविद्येति नितरां घटते, विदितात्मन एव तद्बाधकत्वविनिश्चितेः कथञ्चिद् बाधिताया
- अष्टसहस्त्रीतात्पर्यविवरणम्
स्वसंवेदनापेक्षया सर्वत्राविद्यायां विद्यात्वमिष्टमेवेत्यर्थः । न च कथञ्चिदिति कालभेदाद्विषयभेदाच्चैकत्राप्यात्मनि विद्यावत्त्वेनाविद्यावत्त्वमविरुद्धमिति भावः । तत्फलस्य मतिज्ञानश्रुतज्ञानादिरूपपूर्वविद्याफलस्य, सकलविद्यालक्षणस्य केवलज्ञानस्वरूपस्य तन्निष्फलत्वं त्विष्टमेव, ततः परस्य ज्ञानरूपफलस्याभावात्, तदाहुः-श्रीसिद्धसेनदिवाकरपादाः
दोषपक्तिर्मतिज्ञानान्न किञ्चिदपि केवलात् ।
तमःप्रचयनिःशेषविशुद्धिफलमेव तत् ॥ [निश्चय द्वात्रिंशिका-१४]
श्रीहरिभद्रसूरयस्त्वस्यापि परममुक्तिरूपफलमधिकृत्य परापरफलत्वं स्वीचक्रुः । तदुक्तं षोडशकप्रकरणे
एतद्योगफलं तत्परापरं दृश्यते परमनेन ।
तत्तत्वं यद् दृष्टवा निवर्त्तते दर्शनाकाङ्क्षा ॥१॥ [१५.१२] इति । कथञ्चित्प्रमाणोत्थेति ज्ञानेन विषयस्याबाधनादित्यर्थः । सैव= कथञ्चिद्विद्यैव, स्वसंवेदनांशेऽबाधादित्यर्थः । कथञ्चिद्=बहिःप्रमेयापेक्षया । कथञ्चिद् बाधिताया इति भावप्रमेयापेक्षयाऽबाधिताया अपि बहि:प्रमेयापेक्षया बाधिताया इत्यर्थः । अहं मां न जानामीति प्रतीतिश्च विशेषज्ञानाभावविषया, न भावरूपाज्ञानविषया, अन्यथाहमज्ञः किमपि न जानामीति प्रतीत्या सर्वविषयज्ञानासिद्धेस्तन्निवृत्तये सर्वविषयकं तत्त्वज्ञानमेष्टव्यम्, तच्च तवानिष्टमिति विपरीतसिद्ध्यापत्तेः, तस्मान्नाज्ञाननिमित्तकप्रपञ्चप्रतिपादकमद्वैतदर्शनं