________________
४३०
अष्टसहस्त्रीतात्पर्यविवरणम् यतोऽनुभवतोऽविद्या ब्रह्मास्मीत्यनुभूतिमत् । अतो मानोत्थविज्ञानध्वस्ता साप्यन्यथात्मता ॥ ब्रह्मण्यविदिते बाधान्नाविद्येत्युपपद्यते । नितरां चापि विज्ञाते मृषा धीर्नास्त्यबाधिता ॥ अविद्यावानविद्यां तां न निरूपयितुं क्षमः । वस्तुवृत्तमतोऽपेक्ष्य नाविद्येति निरूप्यते ॥ वस्तुनोऽन्यत्र मानानां व्यापृतिर्न हि युज्यते । अविद्या च न वस्त्विष्टं मानाघातासहिष्णुतः ॥ अविद्याया अविद्यात्वे इदमेव च लक्षणम् ।
मानाघातासहिष्णुत्वमसाधारणमिष्यते ॥ [बृहदा० वा० १७७. १८१] न चैवमप्रामाणिकायामविद्यायां कल्प्यमानायां कश्चिद्दोषः, तस्याः संसारिणः स्वानुभवाश्रयत्वाद् द्वैतवादिन एव दृष्टादृष्टार्थप्रपञ्चस्य प्रमाणबाधितस्य कल्पनायामनेकविधायां बहुविधदोषानुषङ्गात् । तदप्युक्तं
त्वत्पक्षे बहु कल्प्यं स्यात् सर्वं मानविरोधि च ।
कल्प्याविद्यैव मत्पक्षे सा चानुभवसंश्रया ॥ [बृहदा० बा० १८२] इति कश्चित् ।
[अधुना जैनाचार्या ब्रह्मवादिपक्षं निराकुर्वन्ति ।] सोऽपि न प्रेक्षावान्, सर्वप्रमाणातीतस्वभावायाः स्वयमविद्यायाः स्वीकरणात् । न हि प्रेक्षावान् सकलप्रमाणातिक्रान्तरूपामविद्यां विद्यां वा स्वीकुरुते । न च प्रमाणानामविद्याविषयत्वमयुक्तं, विद्यावदविद्याया अपि कथञ्चिद्वस्तुत्वात् । तथा विद्यात्वप्रसङ्ग इति चेत्, न किञ्चिदनिष्टम् ।
__ यथा यत्राविसंवादस्तथा तत्र प्रमाणता इत्यकलङ्कदेवैरप्युक्तत्वात् । बहि:प्रमेयापेक्षया तु कस्यचित्संवेदनस्याविद्यात्वं बाधकप्रमाणावसेयम् । कथम
%3
-
अष्टसहस्त्रीतात्पर्यविवरणम्
-
जानामीत्यनुभवस्यैवानिर्वचनीयभावरूपाज्ञानसाक्षित्वादिति भावः । कथञ्चिद्वस्तुत्वादिति पर्युदासाश्रयणस्यान्यथानुपपत्तेरिति भावः । तथा वस्तुत्वेऽविद्याया यथा यत्रेति