________________
द्वितीयो भाग: [ परि० २ - का० २८ ]
प्रसङ्गात् ।
पृथक्त्वस्य तद्गुणत्वात् पृथगिति प्रत्ययस्य तदालम्बनत्वात् न तेषामपृथक्त्वप्रसङ्ग इति चेत्, न तस्य कथञ्चित्तादात्म्यापत्तेः पृथक्त्वैकान्तविरोधात् ।
४३७
(भा०) तद्गुणगुणिनोरतादात्म्ये घटपटवद् व्यपदेशोऽपि मा भूत्, सम्बन्धनिबन्धनान्तराभावात् ।
कथञ्चित्तादात्म्यमेव हि तयोः सम्बन्धनिबन्धनं, न ततोऽन्यत्सम्भवति । समवायवृत्तिः सम्भवतीति चेत्, न समवायस्य कथञ्चिदविष्वग्भावादपरस्य प्रतिक्षेपात् ।
(भा० ) पृथक्त्वमन्यद्वा पृथग्भूतमनंशमनेकस्थेषु निष्पर्यायं वर्तते इति दुरवगाहम् ।
न ह्यनेकदेशस्थेषु हिमवद्विन्ध्यादिषु सकृदेकः परमाणुर्वर्तते इति सम्भवति । गगनाद्यनंशमपि वर्तते इति चेत्, न तस्यानन्तप्रदेशादितयानंशत्वासिद्धेरनाश्रयतया क्वचिद् वृत्त्यभावाच्च । सत्तैका युगपदनेकत्र वर्तते इत्यप्यसिद्धं तदनन्तपर्यायत्वसाधनात् स्वपर्यायेभ्योऽत्यन्तभेदासिद्धेश्च समवायवृत्त्यनुपपत्तेः । द्रव्यत्वादिसामान्यमपि नैकमनंशमनेकस्वव्यक्तिवृत्ति सकृत्प्रसिद्धं तस्यापि स्वाश्रयात्मकतया कथञ्चित्सांशत्वानेकत्वप्रतीतेः । संयोगविभागपरत्वापरत्वान्यपि नानेकवृत्तीनि युगपदुपपद्यन्ते प्रतियोग्यादिसंयोगादिपरिणामप्रतीतेः सादृश्योपचारादेकत्वव्यवहारात् ।
अष्टसहस्त्रीतात्पर्यविवरणम्
T॥ पृथक्त्ववादः ॥
पृथक्त्वमन्यद्वेति अन्यद् = गुणान्तरं अनेकस्थेषु = अनेकदेशस्थेषु नानापदार्थेषु । न च पृथक्त्वं रूपादिवत् प्रत्याश्रयं भिन्नमेवेष्यत इत्ययमनभ्युपगतोपालम्भः परं प्रति ग्रन्थकृत इति वाच्यम् । द्वित्वद्विपृथक्त्वादीनां परेण व्यासज्यवृत्तित्वस्योपगमात्, एकपृथक्त्वस्य स्वाश्रये द्विपृथक्त्वादेरन्यत्र चैकपृथक्त्वस्यारम्भकतयोभयत्रारम्भकत्वस्वीकारात् । प्रतियोग्यादीति आदिनानुयोगिपरिग्रहः । तथा च घटप्रतियोगिकत्वपटानुयोगिकत्वाभ्यां घटपटसंयोगयोर्भिन्नत्वम्, न त्वेकत्वम्, घटे पयव्यवधानात्मनः पटे घटाव्यवधानात्मनश्च