________________
४३८
अष्टसहस्त्रीतात्पर्यविवरणम् द्वित्वादिरनेकद्रव्यवृत्तिर्युगपदित्यप्यप्रातीतिकं, प्रतिव्यक्ति सकलसङ्ख्यापरिणामसिद्धेः क्वचिदेकत्र तदसिद्धौ परापेक्षयापि तद्विशेषप्रतीत्ययोगात् खरविषाणवत् । ततो न पृथक्त्वमने कत्र युगपद्वर्तते गुणत्वाद्रूपादिवत् । न संयोगादिभिरने कान्तः, तेषामप्यनेकद्रव्यवृत्तीनां सकृदनंशानामसिद्धेः । तदनेन पृथक्त्वैकान्तपक्षेऽपि पृथक्त्ववतोः पृथक्त्वात्पृथक्त्वे तौ तद्वन्तावपृथगेव स्याताम् । तथा च न पृथक्त्वं नाम गुणः स्यात्, एकत्र तद्वति तदनभ्युपगमात् । अनेकस्थो ह्यसौ गुण इति कारिकाव्याख्यानं स्थितपक्षदूषणपरं प्रकाशितं प्रतिपत्तव्यम् ॥२८॥
साम्प्रतं निरन्वयक्षणिकलक्षणपृथक्त्वपक्षे दूषणमाविर्भावयितुमनसः सूरयः प्राहुः
- अष्टसहस्त्रीतात्पर्यविवरणम्
संयोगस्यैकत्वायोगादित्युक्तं भवति । सादृश्योपचारादिति, तन्निबन्धनीभूता वृत्तिरेव च पर्याप्तिः, अन्यथा प्रत्येकावृत्तेः समुदायवृत्तित्वायोगात्, कथं चान्यतरकर्मजत्ववदन्यतरकर्माभावजत्वमन्यतरकर्मजे उभयकर्मजे च तदतत्कर्मजत्वेन भेदकम्, अन्यथोभयकर्मजन्यतावच्छेदिकाया इव त्रयकर्मादिजन्यतावच्छेदिकाया अपि जातेरभ्युपगमप्रसङ्गात्, नो चेत्, कर्मत्रयस्थले उभयकर्मसंयोगद्वयापत्तेः, एवमग्रेऽपि नानासंयोगस्वीकारे आदित एव किं न तत्स्वीकारः ? । यदि च समवायिकारणभेदेऽपि संयोगाद्यैक्यं स्वीक्रियेत, तदा घटादौ यावदवयवरूपमप्येकं स्यादेकत्वप्रतीत्यविशेषात् । (शङ्का) यावदाश्रयबुद्धि सापेक्षत्वासापेक्षत्वाभ्यां विशेष इति चेत्, न, रूपादिप्रतीतेरप्याश्रये पर्याप्तत्वापर्याप्तत्वावगाहने न द्विविधरूपत्वादित्याद्यधिकं वादमालायां निरूपितमस्माभिः । द्वित्वादिरिति एकत्वद्वयादिनैव द्वित्वादिबुद्धिव्यवहारोपपत्तेरिति भावः, तथा च न पृथक्त्वं नाम गुणः स्यादिति। ननु अष्टापत्तिः, नैयायिकमूर्धाभिषिक्तेन शिरोमणिभट्टाचार्येण पृथक्त्वस्यान्योन्याभावरूपस्यैव स्वीकारात्, तथा च तद्ग्रन्थः- Tपृथक्त्वमपि न गुणान्तरम्, अन्योन्याभावादेव तद्व्यवहारोपपत्तेः । पृथक्त्वप्रतीतिस्तु न सावधित्वालम्बना, मानाभावात्, घटात्पट: पृथगितरोऽन्यो भिन्नोऽर्थान्तरमित्यादौ तत्तच्छब्दविशेष्ययोगे पञ्चम्यानुशासनिकीति । अन्याराद् इत्यादिसूत्रे [ ] अन्यपदं विशिष्य पृथगादिपरं न त्वन्योन्याभावविशिष्टबोधकपदसामान्यपरम् इति पृथक्त्वस्यान्योन्याभावरूपत्वेऽपि घटात्पट: पृथगित्यस्येव घटान्न पट इत्यस्य नापत्तिरित्येतदर्थम् इति चेत्, सत्यम्, पृथक्त्वस्यान्योन्याभावरूपत्वेऽप्यभेदसंवलितत्वेन तदेकान्तायोग इत्यत्र ग्रन्थकृतस्तात्पर्यात् । वस्तुतो मूले वृक्षः कपिसंयोगी न शाखायामिति प्रतीत्यनुरोधेनान्योन्याभावाव्याप्यवृत्तित्ववादिनो दीधितिकृतो मते श्यामाद्रक्तो विधर्मा न तु