________________
४३९
द्वितीयो भागः [ परि०२-का. २९]
सन्तानः समुदायश्च साधर्म्यं च निरङ्कशः । प्रेत्यभावश्च तत्सर्वं न स्यादेकत्वनिह्नवे ॥२९॥
जीवादिद्रव्यैकत्वस्य निह्नवे सन्तानो न स्याद्भिन्नसन्तानाभिमतक्षणवत् । यथैकस्कन्धावयवानामेकत्वपरिणामापलापे समुदायो न स्यान्नानास्कन्धावयववत् तथा सधर्मत्वाभिमतानां सदृशपरिणामैकत्वापह्नवे साधर्म्यं न स्याद्विसदृशार्थवत् । मृत्वा पुनर्भवनं प्रेत्यभावः, सोऽपि न स्यादुभयभवानुभाव्येकात्मापाकरणे नानात्मवत् । चशब्दाद्दत्तग्रहादि सर्वं न स्यात्तद्वत् । न च तदभावः शक्यः प्रतिपादयितुं, सकलबाधकशून्यत्वेन निरङ्कुशत्वात् ।
[बौद्धाभिमतसन्तानमान्यतायाः पूर्वपक्ष:] ननु चापरामृष्टभेदाः कार्यकारणक्षणा एव सन्तानः । स चैकत्वनिह्नवेऽपि घटते एवेत्यपि ये समाचक्षते तेषामपि,
(भा०) कार्यकारणयोः पृथक्त्वैकान्ते कार्यकालमात्मानमनयतः कारणत्वासम्भवात्तदनुत्पत्तेः कुतः सन्ततिः ?
- अष्टसहस्त्रीतात्पर्यविवरणम्
पृथगिति प्रतीत्यनुपपत्तेः पृथक्त्वं नान्योन्याभावः सङ्गच्छते, किन्तु प्रविभक्तप्रदेशत्वम्, इत्थमेव तन्तुभ्यः पटो न पृथगित्यस्योपपत्तेः । न च श्यामाद्रक्तो विधर्मा न तु पृथगित्यत्र पृथक्पदस्य तत्तद्व्यक्तित्वावच्छिन्नभेदपरत्वाद् उपपत्तिः सम्भवति प्रकारान्तरे लक्षणाश्रयणस्यातिजघन्यत्वात्, श्यामाद् घटाद् रक्ते घटे न पृथक्त्वं किन्तु पटादित्यत्र श्यामघटाप्रविभक्तपटप्रविभक्तप्रदेशवृत्त्येकविशेष्यताकबोधस्यास्मदुक्तप्रकारं विनानुपपत्तेश्चेति विचारणीयं सुधीभिः ॥२८॥
सन्तानो न स्यादिति मुक्तास्थानीयानां क्षणानां मालास्थानीस्यानुगमकस्याभावादित्यर्थः । नानास्कन्धावयववदिति, न च धान्यराशिवदुपपत्तिः, बुद्धिकृतादेकत्वादवयवबन्धकृतस्यैकत्वस्य विलक्षणत्वात् । साधर्म्यं न स्यादिति, तथा च समानपरिणामैकत्वमादाय सोऽयं शब्द इति प्रयोगो न स्यादिष्यते च तद्व्यक्त्यैक्यं समानपरिणामैक्यं चादाय सोऽयमित्येव प्रयोगस्तव्यक्त्यभिन्नोऽयं तज्जातीयोऽयमिति विवरणद्वैविध्येऽपि प्रयोगैक्यादिति द्रष्टव्यम् । सकलेत्यादि तथा च निरङ्कशत्वं बाधारहित्वं विशेषणं यथास्थितं