________________
४४०
अष्टसहस्त्रीतात्पर्यविवरणम्
ननु कार्यकाले सतोऽपि कारणत्वे तत्कारणत्वानभिमतस्य कार्यकालमात्मानं नयतः सर्वस्य तत्कारणत्वप्रसङ्गः । कार्याकारेण प्रागसतः सव्व्यादिरूपेण प्राक्कार्यकाले च सतस्तत्कार्यस्योत्पत्तौ खरादिमस्तके विषाणादेरुत्पत्तिः किन्न स्यात् ? गवादिशिरसीव तत्रापि तस्य विषाणाद्याकारतया प्रागसत्त्वस्य सव्व्यादिरूपतया सत्त्वस्य चाविशेषात् । तदुत्पत्तिकारणस्य दृष्टस्यादृष्टस्य चाभावात् तत्र न तस्योत्पत्तिरिति वचने परेषामपि प्रागसत्त्वैकान्ताविशेषेऽपि कार्यस्य पूर्वं सति कारणे जन्म नासतीति न किञ्चिदतिप्रसज्यते, तदन्वयव्यतिरेकानुविधाननिबन्धनत्वात् तत्कारणत्वस्य । न च निरन्वयक्षणिकत्वेऽपि कार्यस्य कारणान्वयव्यतिरेकानविधानमसम्भाव्यं स्वकाले सति कारणे कार्यस्योत्पत्तेरसत्यनुत्पत्तेः प्रतीयमानत्वात् स्वदेशापेक्षान्वयव्यतिरेकवत् । तदुक्तम्
अन्वयव्यतिरेकाद्यो यस्य दृष्टोऽनुवर्तकः ।। स्वभावस्तस्य तद्धेतुरतो भिन्नान्न सम्भवः ॥ [
] इति । ततोऽव्यभिचारेण कार्यकारणभूता एवापरामृष्टभेदाः क्षणाः सन्तानो युक्तः । इति कश्चित् ।
[अधुना बौद्धाभिमतसन्तानलक्षणं जैनाचार्या निराकुर्वन्ति । सोऽपि न प्रतीत्यनुसारी, तथा बुद्धेतरचित्तानामप्येकसन्तानत्वप्रसङ्गात् तेषामव्यभिचारेण कार्यकारणभूतत्वाविशेषात् । निरास्रवचित्तोत्पादात्पूर्वं बुद्धचित्तस्यापि सन्तानान्तरचित्तकारणत्वाभावान्न तेषामव्यभिचारी कार्यकारणभाव इति चेत्, न, यतः प्रभृति तेषां कार्यकारणभावस्तत्प्रभृतितस्तस्याव्यभिचारादन्यथा बुद्धचित्तस्यासर्वज्ञत्वप्रसङ्गात् । नाननुकृतान्वयव्यतिरेकं कारणं, नाकारणं विषय इति वचनात् [ ] ।
- अष्टसहस्त्रीतात्पर्यविवरणम् - विपरिणतं वा सर्वत्र योजनीयम्, तेन न तत् सर्वमित्यनेन सर्वत्र तत्परामर्शानुपपत्तिरिति बोध्यम् । पूर्वं सतीति अव्यवहितप्राक्काले सामग्रीसत्त्वं कार्योत्पत्तिप्रयोजकं न तु कार्यस्य प्राक्सत्त्वमसत्त्वं वेति भावः । स्वकाले इति स्वाव्यवहितप्राक्काल इत्यर्थः, स्वदेशे सति कारणे यथा कार्यमुत्पद्यते तथा स्वकालेऽपीति दैशिककालिकव्याप्तिगर्भमेकं कारणत्वमिति भावः । तथा बुद्धेतरेति अनुगमकाभावेन देशस्यापि क्षणत्वादेशिककालिकव्याप्त्योरभेदपर्यवसानादित्यर्थः । सन्तानान्तरेत्यादि सन्तानान्तरचित्तकारणे स्वाकारणे सन्ताने