________________
४४१
द्वितीयो भाग: [ परि०२-का. २९] स्यान्मतं, येषामग्राह्यग्राहकत्वे सत्यव्यभिचारी कार्यकारणभावस्तेषामेकसन्तानत्वोपगमान्न दोष इति चेत्, तदप्ययुक्तं, समनन्तरप्रत्ययेनापि सह बुद्धचित्तस्यैकसन्तानतापायप्रसक्तेः, तस्य बुद्धचित्तेनाग्राह्यत्वे तस्यासर्ववेदित्वापत्तेः । समनन्तरप्रत्ययस्य समनन्तरत्वादेव बुद्धचित्तेन सहैकसन्तानत्वमिति चेत्, कुतस्तस्य समनन्तरत्वम् ? तस्याव्यभिचारिकारणत्वादिति चेत्, न सर्वार्थानां तत्समनन्तरत्वप्रसङ्गात् । एकसन्तानत्वे सति कारणत्वादिति चेत्, सोऽयमन्योन्यसंश्रयः । सिद्धे समनन्तरप्रत्ययत्वे तस्यैकसन्तानत्वेन कारणत्वसिद्धिस्तत्सिद्धौ च समनन्तरप्रत्ययत्वसिद्धिरिति ।
[बौद्धस्य जिज्ञासायां स्वाभिमतसन्तानस्य लक्षणं ब्रुवन्ति जैनाचार्याः ।]
स्याद्वादिनां कस्तइँकः सन्तानः ? इति चेत् ।
(भा०) पूर्वापरकालभाविनोरपि हेतुफलव्यपदेशभाजोरतिशयात्मनोरन्वयः सन्तानः । क्वचित्क्षणान्तरे नीललोहितादिनिर्भासचित्रैकसंवेदनवत्कथञ्चिदेकत्वमेव भवितुमर्हति ।।
न च साध्यविकलं चित्रज्ञानमुदाहरणं तस्यैकत्वसिद्धेः । __ (भा०) तदवयवपृथक्त्वकल्पनायां चित्रनि सो मा भूत् पृथग्वर्णान्तरविषयानेकसन्तानैकक्षणवत् । तत्र प्रत्यासत्तिविशेषः कथञ्चिदैक्यात्कोऽपरः स्यात् ?
[प्रत्यासत्त्यैकत्वकल्पना भवति इति मन्यमाने प्रत्यासत्तेविचारः क्रियते ।]
देशप्रत्यासत्तेः शीतातपवातादिभिर्व्यभिचारात्, कालप्रत्यासत्तेरेकसमयवर्तिभिरशेषार्थैरनेकान्तात्, भावप्रत्यासत्तेरेकार्थोद्भूतानेकपुरुषज्ञानैरनैकान्तिकत्वाद् द्रव्यप्रत्यासत्तिरेव परिशेषात् सम्भाव्यते । सा चैकद्रव्यतादात्म्यलक्षणत्वात्प्रत्यासत्तिविशेषः ।
अष्टसहस्त्रीतात्पर्यविवरणम् बुद्धचित्तस्यासर्वज्ञत्वप्रसङ्गादित्यर्थः । अतिशयात्मनोः= पर्यायस्वरूपयोः, अन्वयः= द्रव्यात्मनैकत्वम्, 'कथञ्चिदैक्यमेवेति नीलाद्यनेकनिर्भासपर्यायज्ञानात्मना तत्काले तदात्म
१. कथञ्चिदैक्यम् इति अष्टसहस्रीसम्मतः पाठः ।