SearchBrowseAboutContactDonate
Page Preview
Page 40
Loading...
Download File
Download File
Page Text
________________ ४४२ अष्टसहस्त्रीतात्पर्यविवरणम् इति कथञ्चिदैक्यमेवैकत्वव्यवहारनिबन्धनं चित्रज्ञानस्य, (भा० ) अन्यथा वेद्यवेदकाकारयोरपि पृथक्त्वैकान्तप्रसङ्गात् । तयोः (भा० ) स्वभावभेदेऽपि सहोपलम्भनियमात्कथञ्चिदभेदाभ्युपगमे कथमेकसन्तानसंविदां समनन्तरोपलम्भनियमात्कथञ्चिदैक्यं न स्यात् । कालसमनन्तरोपलम्भनियमादेकसन्तानत्वमेव स्याद्देशसमनन्तरोपलम्भनियमात् समुदायवत्, न पुनरेकद्रव्यत्वमिति चेत्, न, भवतां बुद्धतरसंविदामेकसन्तानत्वापत्तेः, कालसमनन्तरोपलम्भनियमस्य भावात् पञ्चानामपि च स्कन्धानामेकस्कन्धत्वप्रसङ्गात्, प्रदेशसमनन्तरोपलम्भनियमस्य भावात् । प्रत्यासत्त्यन्तरकल्पनायां (भा० ) तत्र यया प्रत्यासत्त्या सन्तानः समुदायश्च, तयैव कथञ्चिदैक्यमस्तु । न हि तादृशां साधर्म्यमन्यदन्यत्रात्मसाकर्यात् । येन कालसमनन्तरोपलम्भनियमभाजामेकसन्तानत्वं व्यवतिष्ठते देशसमनन्तरोपलम्भनियमभृतां चैकस्कन्धाख्यं समुदायत्वं युज्यते, तादृशः साधर्म्यस्यैकत्वनिह्नवेऽनुपपत्तेः कथञ्चिदेकत्वशून्यार्थसाधर्म्यस्य सन्तानान्तरेषु नानासमुदायेषु च दर्शनात् । एतेनैकसन्तानत्वात् प्रेत्यभावव्यवहारकल्पनमपास्तं कथञ्चिदेकत्वापह्नवे अष्टसहस्त्रीतात्पर्यविवरणम् द्रव्यपरिणामकृतमैक्यमित्यर्थः । समनन्तरोपलम्भनियमाद्=अनुभवस्मरणयोरेकविषयस्पर्शनियमात्, 'कथञ्चिदैक्यं कथं न स्यादिति विशिष्टैक्यद्वारकं विशेषणानामैक्यं स्यादेवेत्यर्थः, कालसमनन्तरोपलम्भनियमात् सादृश्यप्रत्यासन्नक्षणविषयानुभवनियमात्, देशसमनन्तरोपलम्भनियमात्= नैरन्तर्यप्रत्यासन्नस्वलक्षणविषयानुभवनियमात्, पञ्चानां विज्ञानवेदनासञ्जासंस्काररूपलक्षणानाम् । तत्रेति पूर्वोत्तरज्ञानक्षणेष्वेकदेशवर्तिषु च परमाणुष्वित्यर्थः । तादृशामेकसन्तानभाजां=ज्ञानक्षणानां परमाणूनां च, तादृश= एकसन्तानत्वनिबन्धनस्य समुदायत्वनिबन्धनस्य च ॥२९॥ १. कथञ्चिदैक्यं न स्यादिति अष्टसहस्रीसम्मतः पाठः ।
SR No.009090
Book TitleAshtasahastritatparya Vivaranam Part 2
Original Sutra AuthorN/A
AuthorVairagyarativijay
PublisherPravachan Prakashan Puna
Publication Year2004
Total Pages294
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & Philosophy
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy