________________
४४३
द्वितीयो भागः [परि०२-का. ३०] तदयोगात् । कथमिह जन्मनो जन्मान्तरेणैकत्वं, विरोधादिति चेत्, न कथञ्चिदेकत्वे विरोधाभावात् । तथा प्रतिभासादेकज्ञाननिर्भासविशेषवत् । तथा हि
(भा०) एकज्ञाननिर्भासविशेषाणां मिथः स्वभावभेदेऽपि यथैकत्वपरिणामः स्वभावतोऽनङ्कुशस्तथा प्रेत्यभावादिषु सन्तानोऽन्वयः परमार्थैकत्वमात्मसत्त्वजीवादिव्यपदेशभाजनं स्वभावभेदानाक्रम्य स्वामिवदन्यत्र वर्तयति ।
न पुनरन्यत्र जीवान्तरे तेषामशक्यविवेचनत्वाद्विरोधवैयधिकरण्यादीनामेकज्ञाननिर्भासविशेषैरपाकरणान्निरङ्कुशत्वसिद्धेः ॥२९॥
पृथक्त्वैकान्तपक्षे दूषणान्तरमुपदर्शयन्तः प्राहु:
सदात्मना च भिन्नं चेज्ज्ञानं ज्ञेयाद् द्विधाप्यसत् । ज्ञानाभावे कथं ज्ञेयं बहिरन्तश्च ते द्विषाम् ॥३०॥
सदात्मना सत्सामान्यात्मना भिन्नमेव ज्ञानं ज्ञेयादिति चेद्, द्विधाप्यसदेव प्राप्तं ज्ञानस्यासत्त्वे ज्ञेयस्यासत्त्वप्रसङ्गात्, ततो बहिरन्तश्च न किञ्चित्कथञ्चिदपि ज्ञेयं नाम त्वद्विषां प्रतीयेत । [ज्ञानं ज्ञेयात् सद्रूपेणापि भिन्नमिति विज्ञानद्वैतवादिना मन्यमाने विचार: प्रवर्तते जैनाचार्याणाम् ।]
ननु सद्विशेषाद् भेदेऽपि ज्ञानस्य ज्ञेयान्नासत्त्वप्रसक्तिः । सदन्तरत्वं तु न स्यात् पटान्तराद् भेदेऽपि पटस्य पटान्तरत्वाभाववत् । सत्सामान्यं पुनः सर्वेषु सद्विशेषेष्वसत्त्वव्यावृत्तिमात्रम् । न च तदात्मना कस्यचित्कुतश्चिद् भेदोऽभेदो वा विचार्यते तस्य वस्तुनिष्ठत्वात् सन्मात्रस्य चावस्तुत्वात् । तदात्मना व्यावृत्तस्य ज्ञानस्य ज्ञेयात्परमार्थसत्त्वाविरोधान्न कश्चिदुपालम्भ इति चेत्, न सत्सामान्यस्याभावे
- अष्टसहस्त्रीतात्पर्यविवरणम् सदन्तरत्वं त्विति यद्यपि एकपटापेक्षयाऽन्यपटे पटान्तरत्वव्यवहारवद् ज्ञेयापेक्षया ज्ञाने सदन्तरत्वव्यवहारोऽपि सम्भवी तथापि प्रतिनियतप्रतियोगिसद्वाचकपदसमभिव्याहाराभावादयं निषेधो द्रष्टव्यः । प्रागुद्दिष्टधर्मविशिष्टान्वयितावच्छेदकावच्छिन्नप्रतियोगिताकभेदस्यान्वयितावच्छेदकधर्मस्य चान्तरपदार्थत्वात् । वास्तवसत्सामान्यात्मनेति