________________
द्वितीयो भाग: [ परि० १० का ० ९९ ]
न हि जीवाः शश्वदशुद्धित एव व्यवस्थिताः स्याद्वादिनां याज्ञिकानामिव, कामादिस्वभावत्वनिराकरणात्, तत्स्वभावत्वे कदाचिदौदासीन्योपलम्भविरोधात् । नापि शुद्धित एवावस्थिताः कापिलानामिव, प्रकृतिसंसर्गेऽपि तत्र कामाद्युपलम्भविरोधात्, प्रकृतावेव कामाद्युपलम्भे पुरुषकल्पनावैयर्थ्यात्, तदुपभोगस्यापि तत्रैव सम्भवात् । न ह्यन्यः कामयतेऽन्यः काममनुभवतीति वक्तुं युक्तम् । नापि सर्वे सम्भवद्विशुद्धय एव जीवाः प्रमाणतः प्रत्येतुं शक्याः, संसारिशून्यत्वप्रसङ्गात् । किं तर्हि ? शुद्धयशुद्धिभ्यां व्यवतिष्ठन्ते, जीवास्ते शुद्धयशुद्धितः इति वचनात् [का० ९९] । ततः शुद्धिभाजामात्मनां प्रतिमुक्तिरशुद्धिभाजां संसारः । केषाञ्चित् प्रतिमुक्तिः स्वकाललब्धौ स्यादिति प्रतिपत्तव्यम् ॥९९॥
के पुनः शुद्धयशुद्धी जीवानामित्याहु:
अष्टसहस्त्रीतात्पर्यविवरणम्
यदेवैतद्रूपं प्रथममथ सालम्बनपदे, तदेव ध्यानस्थं घटयति निरालम्बनसुखम् । रमागौरीगङ्गावलयशरकुन्ताऽसिकलितं, कथं लीलारूपं स्फुटयतु निराकारपदवीम् ॥३॥
अतर्क्या लीलैशीत्यपि कपिकुलाधीतचपलस्वभावोद्भ्रान्तत्वं विदधति परीक्षां हि सुधियः । न यद्ध्यानस्याङ्गं तदिह भगवद्रूपमपि किं, जगल्लीलाहेतुर्बहुविधमदृष्टं विजयते ॥४॥
ततो यो योगाङ्गैर्बहुभिरिह गाङ्गैरिव जलैविशुद्धैः शुद्धात्माऽलभत विरजा: सिद्धपदवीम् । निषेव्यो ध्येयोऽसौ निरुपधिविशुद्धिर्भगवतो,
ह्युपास्यत्वे तन्त्रं न तु विमतकर्त्रेकविभुता ॥५॥ [शिखरिणी]
६४७
कामादीति जीवत्वावच्छेदेनायं निषेधः तेन नांशतो बाधः, सम्भवद्विशुद्धयो = विशुद्धिप्रागभाववन्तः, संसारिशून्यत्वप्रसङ्गादिति प्रागभावस्य प्रतियोगिजनकत्वनियमादित्यर्थः ॥९९॥