________________
६४६
अष्टसहस्त्रीतात्पर्यविवरणम् (भा० ) तर्हि केषाञ्चिन्मुक्तिरितरेषां संसारश्च, कर्मबन्धनिमित्ताविशेषादिति चेत्, न तेषां शुद्ध्यशुद्धितः प्रतिमुक्तीतरसम्भवादात्मनाम् ।
अष्टसहस्त्रीतात्पर्यविवरणम्
प्राक्तनपरमाणुद्वयसंयोगद्व्यणुकादे शान्नैवं सम्भवतीति वाच्यम्, पूर्वसंयोगादिध्वंसपूर्वव्यणुकादिध्वंसानामुत्तरसंयोगव्यणुकादावन्ततः कालोपाधितयाऽपि जनकत्वात्तत्कालेऽपि कुलालादिकृतेः स्वप्रयोज्यविजातीयसंयोगेन सत्त्वात्, अन्यथा घटत्वाद्यवच्छिन्ने दण्डादिहेतुताया अपि भङ्गापत्तेः । न च दण्डादेः स्वप्रयोज्यविजातीयसंयोगेन हेतुत्वेऽपि कृतेर्लाघवाद्विशेष्यतयैव तत्त्वमुचितं, न च कुलालकृतिस्तदा त(?)अस्तीति वाच्यम्, विजातीयसंयोगत्वेनापि सम्बन्धत्वे गौरवाभावात्, निश्चिताव्यभिचारकत्वाच्च स्वप्रयोज्यत्वस्य तु सम्बद्धसम्बन्धत्वादित्यादि । यत्तु भट्टाचार्यैरुक्तं तत्तत्कार्याणां देशकालादिनियम ईश्वरेच्छात एवेति तत्सिद्धिः, वदन्ति हि पामरा अपीश्वरेच्छैव नियामिकेति, तदपि हृदयदरीदृढरूढगूढश्रद्धालुतोल्लासमात्रं, पामरसंवादस्य नियतिनियामकत्वेऽपि भूम्ना दर्शनात्, सा च तत्त्वान्तरं वा केवलज्ञानं वेत्यन्यदेतत्, तथाभवितव्यतैव सर्वत्र नियामिकेति तु प्रामाणिक: प्रवादः, तस्याः सकलकारणाक्षेपकत्वेन सर्वसंवादात् । यदपि तेषां पद्यं
समालोच्य क्षुद्रेष्वपि भवननाथस्य भुवने, नियोगाद्भूतानां मितसमितिदेशस्थितिलयम् । अये ! केयं भ्रान्तिः सततमपि मीमांसनजुषां, व्यवस्थातः कार्ये जगति जगदीशापरिचयः ॥१॥ इति [
]
तदुपरि मदीयानि पद्यानि
अनित्ये नित्ये वा नियतिनियमाद्वस्तुनि जनिव्यवस्थां धर्माणां स्थितिमपि समालोच्य विशदाम् । अये ! केयं भ्रान्तिः सततमपि तर्कव्यसनिनां, वृथा यद् व्यापारो जगति जगदीशस्य गदितः ॥१॥
प्रवाहेणानादिः स च परिविशुद्धोऽपि गदितो, मलात्यन्ताभावान्ननु भवति शुद्धिर्गगनवत् । तमेकं मन्यन्तां सदृशगतिभेदाग्रहवशानिराशानां सर्वं सफलमफलं कुग्रहजुषाम् ॥२॥