________________
६९४
अष्टसहस्त्रीतात्पर्यविवरणम् स्याद्वादिनोऽभिप्रेतं, येनोभयात्मकत्वे एवादेयहेयत्वं न स्यात्, कथञ्चिद्विधिप्रतिषेधयोस्तादात्म्योपगमात् ।
(भा०) तद्विधेयप्रतिषेध्यात्मविशेषात् स्याद्वादः प्रक्रियते सप्तभङ्गीसमाश्रयात् ।
यथैव हि विधेयोऽस्तित्वादिविशेषः, स्वात्मना विधेयो न प्रतिषेध्यात्मनेति स्याद्विधेयः सिद्धः । प्रतिषेध्यात्मविशेषश्च विधेयात्मना प्रतिषेध्यो न प्रतिषेध्यात्मना इति स्यात्प्रतिषेध्य स्यादप्रतिषेध्योऽन्यथा व्याघातात् । तथैव जीवाद्यर्थः स्याद्विधेयः स्यात्प्रतिषेध्यः इति सप्तभङ्गीसमाश्रयात् स्याद्वादस्य प्रक्रियमाणस्य सम्यक् स्थितिः, सर्वत्र युक्तिशास्त्राविरोधात्, भावैकान्तादिष्वेव तद्विरोधसमर्थनात् । ततो भगवन्ननवद्यमध्यवसितमस्माभिः, स त्वमेवासि निर्दोषो युक्तिशास्त्रविरोधिवाक्त्वादिति ॥११३॥
तदेवं प्रारब्धनिर्वहणमात्मनस्तत्फलं च सूरयः प्रकाशयन्ति
इतीयमाप्तमीमांसा विहिता हितमिच्छताम् । सम्यमिथ्योपदेशार्थविशेषप्रतिपत्तये ॥११४॥
[जैनाचार्याः अस्य ग्रन्थस्य फलं प्रकाशयन्ति ।] (भा०) इति देवागमाख्ये (भा०) स्वोक्तपरिच्छेदे । शास्त्रे (स्वेनोक्ताः परिच्छेदा दश यस्मिंस्तत् स्वोक्तपरिच्छेदमिति ग्राह्यं, तत्र) (भा०) विहितेयमाप्तमीमांसा सर्वज्ञविशेषपरीक्षा । हितमिच्छतां (भा०) निःश्रेयसकामिनां ।
मुख्यतो निःश्रेयसस्यैव हितत्वात् तत्कारणत्वेन रत्नत्रयस्य च हितत्वघटनात्, तदिच्छतामेव न पुनस्तदनिच्छतां