________________
६९५
द्वितीयो भागः [ परि. १०-का. ११४]
(भा०) अभव्यानां तदनुपयोगात् । तत्त्वेतरपरीक्षां प्रति भव्यानामेव नियताधिकृतिः ।
तथा मोक्षकारणानुष्ठानात् मोक्षप्राप्त्युपपत्तेः । सम्यमिथ्योपदेशार्थविशेषप्रतिपत्तये युक्तात्ममीमांसा भगवतामाचार्याणां परहितसम्पादनप्रवणहृदयत्वात्, दर्शनविशुद्धिप्रवचनवात्सल्यमार्गप्रभावनापरत्वाच्च । ततः परमार्हन्त्यलक्ष्मीपरिसमाप्तेः स्वार्थसम्पत्तिसिद्धिः । सम्यग्दर्शनज्ञानचारित्राणि मोक्षमार्गः इति [तत्त्वा० १.१ ] सम्यगुपदेशः, तदन्यतमापाये मोक्षस्यानुपपत्तेः समर्थनात् । 'ज्ञानेन चापवर्गः' इत्यादिमिथ्योपदेशस्तस्य दृष्टेष्टविरुद्धत्वसाधनात् । तयोरर्थविशेषः सत्येतरविषयभेदः सम्यग्दर्शनादिमिथ्यादर्शनादिप्रयोजनभेदो वा तद्भावनाविशेषो वा मोक्षबन्धप्रसिद्धिभेदो वा । तस्य प्रतिपत्तिरुपादेयत्वेन हेयत्वेन च श्रद्धानमध्यवसायः समाचरणं चोच्यते । तस्मै सम्यमिथ्योपदेशार्थविशेषप्रतिपत्तये । शास्त्रारम्भेऽभिष्टतस्याप्तस्य मोक्षमार्गप्रणेतृतया कर्मभूभृद्भेत्तृतया विश्वतत्त्वानां ज्ञातृतया च भगवदहत्सर्वज्ञस्यैवान्ययोगव्यवच्छेदेन सव्यवस्थापनपरा परीक्षेयं विहिता, इति स्वाभिप्रेतार्थनिवेदनमाचार्याणामाचार्यैर्विचार्य प्रतिपत्तव्यम् ॥११४।।
अत्र शास्त्रपरिसमाप्तौ केचिदिदं मङ्गलवचनमनुमन्यन्ते
जयति जगति क्लेशावेशप्रपञ्चहिमांशुमान्, विहतविषमैकान्तध्वान्तप्रमाणनयांशुमान् । यतिपतिरजो यस्याधृष्यान्मताम्बुनिधेर्लवान्,
स्वमतमतयस्ती• नाना परे समुपासते ॥१॥ [हरिणी] श्रीमदकलङ्कदेवाः पुनरिदं वदन्ति-(स्वभाष्यपरिसमाप्तिमङ्गलम्)
श्रीवर्धमानमकलङ्कमनिन्द्यवन्द्यपादारविन्दयुगलं प्रणिपत्य मूर्ना । भव्यैकलोकनयनं परिपालयन्तं,
स्याद्वादवर्त्म परिणौमि समन्तभद्रम् ॥१॥ इति [वसन्ततिलका]
परापरगुरुप्रवाहगुणगणसंस्तवस्य मङ्गलस्य प्रसिद्धर्वयं तु स्वभक्तिवशादेवं निवेदयामः
येनाशेषकुनीतिवृत्तिसरितः प्रेक्षावतां शोषिता, यद्वाचोऽप्यकलङ्कनीतिरुचिरास्तत्त्वार्थसार्थद्युतः ।