________________ 696 अष्टसहस्त्रीतात्पर्यविवरणम् स श्रीस्वामिसमन्तभद्रयतिभृद् भूयाद्विभुर्भानुमान्, विद्यानन्दघनप्रदोऽनघधियां स्याद्वादमार्गाग्रणीः // 1 // [शार्दूलविक्रीडितम् / ] श्रीमदकलङ्कशशधरकुलविद्यानन्दसम्भवा भूयात् / गुरुमीमांसालङ्कृतिरष्टसहस्त्री सतामृद्ध्यै // 2 // वीरसेनाख्यमोक्षगे चारुगुणानर्घ्यरत्नसिन्धुगिरिसततम् / सारतरात्मध्यानगे मारमदाम्भोदपवनगिरिगह्वरायि तु // 3 // कष्टसहस्त्री सिद्धा साष्टसहस्त्रीयमत्र मे पुष्यात् / शश्वदभीष्टसहस्त्री कुमारसेनोक्तिवर्धमानार्था (नर्धा) // / इत्याप्तमीमांसालङ्कृतौ दशमः परिच्छेदः / // इति श्रीमदकलङ्कदेवप्रणीत-भाष्योपबृंहिता श्रीविद्यानन्दसूरिसन्हब्धेयमष्टसहस्त्रीवृत्तिः // अष्टसहस्त्रीतात्पर्यविवरणम् इति श्रीमदकब्बरसुरत्राणप्रदत्तजगद्गुरुबिरुदधारकभट्टारकश्रीहीरविजयसूरीश्वरशिष्य मुख्यमहोपाध्यायश्रीकल्याणविजयगणिशिष्यावतंसपण्डितश्रीलाभविजयगणि शिष्याग्रेसरपण्डितश्रीजितविजयगणिसतीर्थ्यालङ्कार पण्डितश्रीनयविजयगणिचरणकमलचञ्चरीकेण पण्डितश्रीपद्मविजयगणिसहोदरेण महोपाध्यायश्रीयशोविजयगणिना विरचितेऽष्टसहस्त्रीतात्पर्यविवरणे // दशमः परिच्छेदः //