________________
४५३
द्वितीयो भागः [परि० २-का० ३४]
(भा०) तादृशं हि साधनं स्वार्थक्रियायाः
क्षीराद्याहरणादिकाया महदादिसृष्टिरूपाया वा स्वविषयज्ञानजननलक्षणाया वा सिद्धमेव ।
(भा०) तदन्तरेणापि पाठान्तरमिदं बहु सगृहीतं भवति ।
कारिकायां स्वभेदैः साधनं यथा इत्यत्र साधनशब्देन साधनसामान्यस्याभिधानात् स्वभेदशब्देन च तत्सामान्यस्य वचनात् । यथायोगं विशेषव्याख्यानादिष्टविशेषसिद्धेर्बहुसङ्ग्रहः ॥३३॥
ननु चैकत्वप्रत्ययात्पृथक्त्वप्रत्ययाच्च कथमेकत्वं पृथक्त्वं च जीवादीनामुपपन्नं तस्य निर्विषयत्वादित्यारेकायां तस्य सविषयत्वमादर्शयितुमनसः स्वामिनः प्राहु:
सत्सामान्यात्तु सर्वैक्यं पृथग्द्रव्यादिभेदतः ।
भेदाभेदविवक्षायामसाधारणहेतुवत् ॥३४॥ तु (:) विशेषणे । तेन सत्सामान्यं विशेषणमाश्रित्य सर्वेषां जीवादीनामैक्य
- अष्टसहस्त्रीतात्पर्यविवरणम् - तत्त्वमित्यन्वयं प्रदर्शयति-तादृशं हीत्यादिना क्षीराद्याहरणादिकाया इत्युत्तरयोरर्थक्रियाप्रदर्शनं स्वविषयज्ञानेत्याद्ययोः हेतुना स्वविषयज्ञानस्यानुमितिरूपस्य संवेदनेन चानुव्यवसायस्य जननादिति बोध्यम् । (शङ्का) स्वप्रकाशत्वात्संवेदनस्य न स्वविषयज्ञानजननलक्षणाप्यर्थक्रियेति चेत्, तर्हि व्यवहारजननलक्षणा साऽऽद्रियतां, यथा कथञ्चिदर्थक्रियाकारित्वस्यैव वस्तुत्वव्यवस्थापकत्वादिति तत्त्वम् । भाष्ये तदन्तरेणापीति तत्=प्रसिद्धसाधनम्, अन्तरेण विनापि, इदं तुरीयपादलक्षणं पाठान्तरम्= एकपाठत्वेऽप्यावृत्त्यपेक्षया नानाप्रयोगरूपं बहूनां सङ्ग्रहीतं भावे क्तप्रत्ययात् सङ्ग्रहो यत्र तत्तथा, बह्वर्थसङ्ग्राहकं भवतीत्यर्थः । कारिकायामिति अवयवावयविभावेन वृत्तित्वे सप्तमी । उक्तमेव विवृणोति वृत्तिकृत्-स्वभेदैरित्यादिना ॥३३॥
सत्सामान्यात्त्विति सर्वस्य वस्तुनः सत्त्वेनैक्यं द्रव्यादिभेदेन पार्थक्यं यथाऽसाधारणः शृङ्गग्राहिकयाऽभिहितः सत्त्वादिर्हेतुस्तद्धेतुत्वेनाभेदविवक्षयैक: पक्षधर्मत्वाद्यपेक्षया च पृथग्रूप इति । तथा चैकत्वं पृथक्त्वं च वैवक्षिकमेव न तु क्वचन