________________
४५२
अष्टसहस्रीतात्पर्यविवरणम् त्वाव्योमकुसुमादिवत् । तथा हि-सर्वथा पृथक्त्वं नास्त्येव, एकत्वनिरपेक्षत्वाद् व्योमकुसुमवत् । सर्वथैकत्वं नास्ति पृथक्त्वनिरपेक्षत्वात्तद्वदिति । अत्र न हेतुद्वयमसिद्धं तदेकान्तवादिनां तथाभ्युपगमात् । नाप्यनैकान्तिकं विरुद्धं वा, विपक्षवृत्त्यभावात् ।
[सापेक्षमेवैक्यं पृथक्त्वञ्च जीवादिवस्तुनीति साधयन्ति जैनाचार्याः ।] (भा०) सापेक्षत्वे हि तदेवैक्यं पृथक्त्वमित्यविरुद्धम् ।
कथञ्चिज्जीवादिवस्तु प्रत्यक्षादिभिरुपलभ्यते न पुनः सर्वथेति सिद्धान्यथानुपपत्तिः ।
(भा०) सपक्षविपक्षयोर्भावाभावाभ्यां साधनवत् ।
न हि सपक्षे एव भावो विपक्षेऽभावनिरपेक्षो विपक्षेऽभाव एव वा सपक्षे भावानपेक्षः साधनवस्तुनो रूपं परेषां सिद्धं येन साध्यसाधनविधुरमुदाहरणं स्यात् ।
(भा०) स्वभेदैर्वा संवेदनवत् ।
न हि हेतुमनिच्छतः संवेदनाद्वैतं पुरुषाद्वैतं वा स्वीकुर्वतोऽपि चित्रसंवेदनं नीलादिनिर्भासैरद्वयसंवेदनं वा ग्राह्यग्राहकाकारविवेकसंविदाकारैः परमब्रह्म वा तेजःशब्दज्ञानज्योतिराकारैर्विद्येतराकारैर्वा स्वभेदैः परस्परनिरपेक्षैर्विशिष्टं वस्तु सिद्धं येनोदाहरणमनवद्यं न स्यात् ।
(भा०) स्वारम्भकावयवैर्वा घटादिवत् औलूक्यानाम् । सत्त्वादिभिः प्रधानवद्वा कापिलानाम् ।
- अष्टसहस्त्रीतात्पर्यविवरणम्
वस्तुत्वान्यथानुपपत्त्या कथञ्चिदेकं कथञ्चित् पृथक् च जीवादिवस्तु साधनीयं, विपक्षे बाधकश्च व्यवहारबाध एवेति नाप्रयोजकत्वम् । स्वभेदैः साधनं यथेति दृष्टान्तचतुष्टयप्रतिपादनपरे प्रतीके साधनपदं हेतुसंवेदनघटाद्यवयविप्रधानपरतया भेदपदं च हेतुरूपनीलाद्याकारस्वारम्भकावयवसत्त्वादिपरतया व्याचिख्यासुराह भाष्यकृत्-सपक्षविपक्षयोरित्यादिना परस्परनिरपेक्षरूपविशिष्टे न वस्तुत्वमिति व्यतिरेकं प्रदर्शयित्वा परस्परसापेक्षरूपविशिष्ट एव