________________
द्वितीयो भाग: [ परि० २ - का० ३३]
तदेवमेकत्वाद्येकान्तनिराकृतिसामर्थ्यात्तदनेकान्ततत्त्वप्रसिद्धावपि तत्प्रतिपत्तिदाढ्र्क्ष्यार्थमन्यथाशङ्कापाकरणार्थं च तत्सप्तभङ्गीं समाविर्भावयितुकामास्तन्मूलभङ्गद्वयात्मकत्वं जीवादिवस्तुनः प्राहुः
४५१
अनपेक्षे पृथक्त्वैक्ये ह्यवस्तु द्वयहेतुतः । तदेवैक्यं पृथक्त्वं च स्वभेदैः साधनं यथा ॥३३॥
स्पष्ट
हि=यस्मादवस्त्वेवानपेक्षे पृथक्त्वैक्ये ऐक्यपृथक्त्वनिरपेक्षत्वहेतुद्वयात् प्रतिपादिते प्राक्, तस्मात्तदेवैक्यं पृथक्त्वं च जीवादिवस्तु कथञ्चिदेकत्वपृथक्त्वप्रत्ययहेतुद्वयादवसीयते । यथा साधनं सत्त्वादि पक्षधर्मत्वसपक्षसत्त्वविपक्षासत्त्वलक्षणैर्भेदैर्विशिष्टमेकं प्रसिद्धमुभयोः । तत्राप्यन्वयव्यतिरेकयोरनपेक्षयोरवस्तुरूपत्वात् साधनलक्षणत्वायोगात् सापेक्षयोरेव तल्लक्षणत्वेन वस्तुस्वभावत्वसिद्धेः साम्यमुदाहरणस्य प्रतिपत्तव्यम् । किं पुनरनया कारिकया करोत्याचार्यः ? पूर्वेणैवास्यार्थस्य गतत्वादिति चेत्,
(भा०) एकत्वपृथक्त्वे नैकान्ततः स्तः, प्रत्यक्षादिविरोधादिति
गतार्थस्याप्यनुमानविषयत्वप्रदर्शनात्स्पष्टत्वप्रसिद्धेः, प्रमाणसम्प्लववादिनां गृहीतग्रहणस्यादूषणात् । तथा हि
( भा० ) पृथक्त्वैकत्वे तथाभूते न स्ताम्, एकत्वपृथक्त्वरहित
अष्टसहस्त्रीतात्पर्यविवरणम्
इत्यर्थः । एवमग्रेऽपि ||३२||
कथञ्चिदेकत्वेत्यादि जीवादिवस्तु सापेक्षं सदेकं भवति कथञ्चिदेकत्वेन प्रतीयमानत्वात् सत्त्वादिसाधनवत्, तथा जीवादिवस्तु सापेक्षं पृथग् भवति कथञ्चित् पृथक्त्वेन प्रतीयमानत्वात् तद्वदेवेति हेतुद्वयं बोध्यम् । (शं०) न च दृष्टान्ते साध्यवैकल्यं, (स०) सत्त्वादिहेतौ हेतुलक्षणपर्याप्तिप्रकारकबुद्धिविषयत्वरूपस्याभेदस्यान्वयित्वव्यतिरेकित्वापेक्षया तदविषयकबुद्धिविषयत्वादिरूपभेदस्य च सर्वसम्प्रतिपन्नत्वात् । (शं०) न चायं भेदोऽकिञ्चित्करो, (स०) व्याप्तिलक्षणे ईदृशस्यैव भेदस्यान्यैरपि प्रवेशात्, अन्यथाऽनिर्वाहादिति बोध्यम् । तदेव स्पष्टयति-यथा साधनमित्यादिना । सिद्धान्यथानुपपत्तिरिति तथा च