________________
४५०
अष्टसहस्त्रीतात्पर्यविवरणम् नामकरणमात्रमबाधाकरमेव परेषामनुषज्येत । सोऽयं संवृत्या विभ्रमैकान्तसाधनमविभ्रमदूषणं च प्रत्येतीति परमार्थतो न प्रत्येतीति उपेक्षणीयवचन एव । तमन्येऽद्याप्यनुमन्यन्ते इत्यचिन्त्यमनल्पतमतमोनिबन्धनमशक्यपर्यन्तगमनमिहाद्भुतम् ॥३१॥
एवं तर्हि मा भूत् पृथक्त्वैकान्तोऽद्वैतैकान्तवदशक्यव्यवस्थापनत्वात् । तदुभयैकात्म्यं तु श्रेय इति मन्यमानं वादिनं सर्वथा वावाच्यं तत्त्वमातिष्ठमानं प्रत्याहु:
विरोधान्नोभयैकात्म्यं स्याद्वादन्यायविद्विषाम् ।
अवाच्यतैकान्तेऽप्युक्तिर्नावाच्यमिति युज्यते ॥३२॥ (भा०) अस्तित्वनास्तित्वैकत्वानेकत्ववत् पृथक्त्वेतरपरस्परप्रत्यनीकस्वभावद्वयसम्भवोऽपि मा भूद्विप्रतिषेधात् । न खलु सर्वात्मना विरुद्धधर्माध्यासोऽस्ति तदन्योन्यविधिप्रतिषेधलक्षणत्वाद्वन्ध्यासुतवत् ।
यथैव हि वन्ध्याया विधिरेव तत्सुतप्रतिषेधः स एव वा वन्ध्याया विधिरिति वन्ध्यासुतयोरन्योन्यविधिप्रतिषेधलक्षणत्वं तथा पृथक्त्वस्वभावविधिरेव सर्वथैकत्वप्रतिषेधः स एव च तद्विधिः इति कथमिव स्याद्वादमनिच्छतां विरुद्धधर्माध्यासः सम्भवेद्यतस्तदुभयैकात्म्यं तत्त्वमेकान्तवादिनः स्वीकुर्युः ?
(भा०) सर्वथानभिलाप्यतत्त्वाधिगमेऽपि यदेतदनभिलाप्यं तत्त्वमिति तव्याहन्यते, पूर्ववत् ।
इत्यलं प्रपञ्चेन ॥३२॥
- अष्टसहस्रीतात्पर्यविवरणम्
वचनमिति विभ्रमैकान्तवादी माध्यमिको, ग्राह्यांशे ग्राहकांशे च तस्य विभ्रमवादित्वात्, वेदान्ती वा, विद्याया अप्यविद्याकार्यत्वेन तेन भ्रान्तत्वोपगमादिति द्रष्टव्यम् ॥३१॥
न खल्विति सर्वात्मना विरुद्धयोरैकाधिकरण्यं नास्तीत्यर्थः । तथा च सर्वथा पृथक्त्वैकत्वयोर्न तत्, कथञ्चित् पृथक्त्वैकत्वयोस्त्वविरोधात्तत् सम्भवत्येवेति भावः । वन्ध्याया विधिरेव तादात्म्येनेति दृश्यम् । तत्सुतप्रतिषेधः जनकतासम्बन्धेन सुताभाव