________________
द्वितीयो भागः [ परि. २-का० ३१]
४४९ विकल्प: स्यात् । परतश्चेदनवस्थानादप्रतिपत्तिः । अतोऽर्थविकल्पोऽपि मा भूदित्यन्धकल्पं जगत् स्यात्
स्वयमनिश्चयात्मनो विकल्पादर्थनिश्चयानुपपत्तेः । (भा०) न चायं परोक्षबुद्धिवादमतिशेते ।
सर्वथार्थचिन्तनोच्छेदाविशेषात् । यथैव ह्यप्रत्यक्षोपलम्भस्य नार्थदृष्टिः प्रसिद्ध्यति तथा स्वयमनिश्चितात्मोपलम्भस्यापि ।
(भा०) स्वयमनिर्णीतेन नामात्मना बुद्धिरर्थं व्यवस्थापयतीति सुव्यवस्थितं तत्त्वम् । [विभ्रमैकान्तवादी कथयति यत् ज्ञानं स्वरूपं पररूपं वा कञ्चिदप्यर्थं न निश्चिनोतीति
तस्य विचारः क्रियते जैनाचार्यैः ।] (भा०) न वै स्वरूपं पररूपं वा बुद्धिरध्यवस्यति निर्विषयत्वाद्भ्रान्तेः ।
स्वप्नबुद्धिवदिति विभ्रमैकान्तवादिवचनम् । (भा० ) इदमतो भ्रान्ततरं, बहिरन्तश्च सद्भावासिद्धेः ।
स्वप्नादिभ्रान्तज्ञानं हि बहिरासत्त्वादेव, न पुनः स्वरूपासत्त्वात्, इदं तु विभ्रमैकान्तसंवेदनं बहिरन्तरप्यर्थासत्त्वादिति कथं न तदतिशेते ? न चास्य स्वरूपसत्त्वं, तद्व्यवस्थानस्य विपक्षव्यवच्छेदेन प्रतिपत्तिपथमुपनेतुमशक्तेः ।
(भा०) स्वपरस्वभावप्रतिपत्तिशून्येन स्वपरपक्षसाधनदूषणव्यवस्था प्रत्येतीति किमपि महाद्भुतम् ।
संवृत्या प्रत्येतीति चायुक्तं, कथञ्चिदपि परमार्थप्रतिपत्त्यभावे संवृतिप्रतिपत्त्ययोगात् परमार्थविपर्ययरूपत्वात्संवृतेः । अन्यथा परमार्थस्य संवृतिरिति
- अष्टसहस्त्रीतात्पर्यविवरणम् बोधस्वरूपस्वलक्षणांशेऽपि विकल्पः सप्रकारकः स्यात्, न च त्रिपुटीप्रत्यक्षवादे इष्टापत्तिः, बोधांशे निर्विकल्पकत्वेऽपि स्वात्मोभयव्यवहारजनकत्वेनैव स्वात्मविषयत्वव्यवस्थानात्, अन्यथाऽनुव्यवसायाकारपरम्पराभाजनत्वापत्तेरित्यर्थः । विभ्रमैकान्तवादि