________________
४४८
अष्टसहस्त्रीतात्पर्यविवरणम् न प्रधानेश्वरादिसाधनवाक्यम्, परमार्थतस्तु न किञ्चिद्वचनमवितथम्, इत्यभ्युपगमेऽपि
(भा०) दृश्यविकल्प्यार्थाकारयोः कथञ्चिदप्यतादात्म्ये स्वलक्षणं सर्वथानवधारितलक्षणं दानादिचेतोधर्मादिक्षणवत् कथं संशीतिमतिवर्तेत ?
निर्विकल्पकदर्शनात्तदवधारणासम्भवात् ।
(भा०) विकल्पानां चावधास्नुविषयत्वात् । सोऽयमविकल्पेतरराश्योरर्थेतरविषयत्वमन्यद्वा स्वांशमात्रावलम्बिना विकल्पान्तरेण प्रत्येतीति सुपरिबोधप्रज्ञो देवानांप्रियः ।
न ह्यविकल्पेतरराश्योरर्थानर्थविषयत्वं विशदेतरात्मत्वं वानुपष्णवेतररूपत्वं वा येन विकल्पान्तरेण प्रत्येति । तद्वस्तुविषयं युक्तं, तस्य विकल्पराशावनर्थविषयेऽनुप्रवेशात् । (भा०) स्वत एव विकल्पसंविदां निर्णये स्वलक्षणविषयोऽपि
- अष्टसहस्त्रीतात्पर्यविवरणम् तदवच्छेदकार्थानुमापकत्वं, तथा चैतानि पदानि वक्तृतात्पर्यविषयसंसर्गप्रमाणपूर्वकाणि आकाङ्क्षादिमत्पदकदम्बकत्वाद् गाम् अभ्याज दण्डेनेत्यादिपदवदित्यनुमानविधया शब्दप्रामाण्यं ताथागतानां न दुर्वचं काणादताथागतयोः प्रत्यक्षानुमानप्रमाणद्वयवादित्वात्, एवमपि वक्तृतात्पर्यसम्भावनामात्रहेतुतया शब्दप्रामाण्यप्रतिक्षेपे धूमादपि वह्निसम्भावनयैव प्रवृत्तिसम्भवादनुमानमात्रोच्छेदेन चार्वाकमतप्रवेशापत्तेरिति चेत्, नाननुमितमसाक्षात्कृतं श्रुतमिदं मयाऽऽप्तमुखादिति प्रतीत्या शाब्द्याः प्रमाया अतिरिक्तत्वे तत्करणस्यानुमानातिरिक्तत्वात्, व्युत्पत्तिज्ञानादेः स्वातन्त्र्येण शाब्दबोध एव हेतुत्वाच्च । विलक्षणानुमितावेव तद्धेतुत्वोपगमे च विलक्षणमानस एव तद्धेतुत्वं किं न स्यात् ? येन शाब्दत्वं मानसत्वव्याप्यं न भवेत्, व्याप्त्याद्यप्रतिसन्धानेऽपि व्युत्पन्नस्य शब्दश्रवणेन शाब्दबोधाच्च नानुमानं शब्द इति दिक् । स्वांशमात्रावलम्बिनेति स्वमेवांशो भागस्तन्मात्रावलम्बिना=परमार्थचिन्तायां स्वरूपमात्रग्राहिणेत्यर्थः । तदुक्तं न्यायविनिश्चयालङ्कारे
स्वग्राौकस्वभावोऽयं विकल्पस्तन्मते स्थितः ।
व्याहारादेः कथं तेन बहिरर्थस्य वीक्षणम् ॥ इति । [८३३] स्वत एवेति स्वत एव स्वग्राह्यार्थस्य विकल्पज्ञानेन तत्तत्प्रकारकत्वेन निर्णये