________________
द्वितीयो भागः [ परि. २-का. ३१]
४४७ दृश्ये विकल्प्याध्यारोपादवैशद्यप्रतीतिप्रसङ्गात्, प्रत्यासन्नतरे च चक्षुषः करतलरेखादौ विकल्प्ये दृश्याध्यारोपाद्वैशद्यप्रसङ्गात् । यदि पुनरदृष्टविशेषवशाद् दृश्यविकल्प्ययोरेकत्वाध्यारोपाविशेषेऽपि क्वचिद्वैशद्यमवैशद्यं च यथाप्रतीत्यभिधीयते तदा तत एवेन्द्रियजत्वाविशेषेऽपि क्वचिद्विशदप्रतिभासोऽन्यत्रान्यथेति नैकान्तेन दर्शनस्य विशदात्मकत्वमर्थसन्निधानापेक्षत्वं वा यतः परमार्थंकतानत्वान्नियमः स्यात्, न पुनः शब्दबुद्धिवदुपादाननियमादिति ।
[त्रिरूपहेतुसूचकं वचनं सत्यं नान्यदिति मान्यतां निराकुर्वन्ति जैनाचार्याः ।]
न शब्दबुद्धेरवस्तुविषयत्वेऽप्युपादाननियमाद्विशेषः, परार्थनुमानस्य वक्त्रभिप्रेतसमये त्रिरूपहेतुसूचितत्वादविसंवादादितरवचनाद्विशेष इति चेत्, न, तथापि
(भा०) क्षणभङ्गादिसाधनवचनमन्यद्वा न किञ्चित् सत्यं स्याद्वक्त्रभिप्रेतमात्रसूचित्वात् प्रधानेश्वरादिसाधनवाक्यवत् ।
न हि वक्त्रभिप्रेतमात्रसूचित्वाविशेषेऽपि क्षणभङ्गादिसाधनं प्रतिपक्षदूषणं वा सत्यं न पुनः प्रधानेश्वरादिसाधनमिति शक्यव्यवस्थं, यतस्तदेव संवादि स्यात्, सर्वथा विशेषाभावात् ।।
(भा०) सदाप्रतिपादनाद्वा न क्षणभङ्गादिसाधनवचनं विपक्षदूषणवचनं वा सत्यं, प्रसिद्धालीकवचनवत् ।
ननु च व्याख्यातारः खल्वेवं विवेचयन्ति न व्यवहारः । ते हि दृश्यविकल्प्यावावेकीकृत्य यथेष्टं व्यवहरन्ति । क्षणभङ्गादिसाधनवचनमन्यद्वा सत्यं,
अष्टसहस्त्रीतात्पर्यविवरणम्
नवकाशः, औत्तरकालिकश्चारोपो धर्मिणं विना धर्मानुत्पत्तेरभित्तिचित्रार्पितः, तथापि सन्निकर्षविप्रकर्षकृतो भेदाग्रह एव वैशद्यावैशद्यव्यवहारहेतुः स्वरूपतो वैशद्यं तु स्वलक्षणविषयत्वेनेत्यत्र तात्पर्यम् । यथाप्रतीत्यभिधीयत इति तथाव्यवहारस्य तथाप्रतीतिसाध्यत्वाद्भेदाग्रहस्य च विशिष्टज्ञानमात्रोच्छेदकत्वेन व्यवहारानङ्गत्वादिति भावः । परमार्थंकतानत्वाद्वस्त्वेकावलम्बनत्वात् । नियमः स्याद् दर्शनेऽर्थप्रकाशकत्वस्येति गम्यम् । उपादाननियमा=वासनाविशेषव्याप्तेः । भाष्ये प्रसिद्धालीकवचनवदिति नदीतीरे मोदकराशयः सन्तीति विप्रतारकवचनवदित्यर्थः । ननु वक्त्रभिप्रायसूचकत्वं