________________
अष्टसहस्त्रीतात्पर्यविवरणम्
द्विचन्द्रादिदर्शनाभावप्रसङ्गात् किन्तूपादानस्य स्ववासनाविशेषस्य भेदात्' इति ।
(भा०) तदेवमनवधारितात्मकं वस्तु स्वलक्षणमापनपद्येत ।
विकल्पेनेवाविकल्पेनाप्यवधारयितुमशक्तेः । निर्विकल्पकस्यार्थसन्निधानापेक्षत्वाद्वैशद्याच्च परमार्थैकतानत्वमिति चेत्, न तदनियमात् । तथा हि[निर्विकल्पज्ञानमर्थसन्निधानमपेक्षत एवास्य निराकरणम् ।]
४४६
भा० ) नावश्यमिन्द्रियज्ञानमर्थसन्निधानमपेक्षते विप्लवाभावप्रसङ्गात् । नापि विशदात्मकमेव, दूरेऽपि तथा प्रतिभासप्रसङ्गाद्यथाऽऽरात् ।
न हि आरादेवार्थे निर्विकल्पमिन्द्रियज्ञानं न पुनर्दूरे इति शक्यं वक्तुम्, इन्द्रियान्वयव्यतिरेकानुविधानाविशेषात् । दूरार्थेऽपीन्द्रियज्ञानं विशदात्मकमेव, तत्रावैशद्यस्याशूत्पन्नानन्तरविकल्पेन सहैकत्वाध्यारोपादेव प्रतीतेरिति चेत्, न आसन्नार्थेऽपि तदवैशद्यप्रतीतिप्रसङ्गात् । न हि तत्राविकल्पानन्तरं चिराद्विकल्पस्योत्पत्तिः, पुरोवर्त्तिन्यर्थेऽक्षज्ञानजविकल्पवैशद्यस्य तल्लघुवृत्तिनिबन्धनत्वाभावप्रसङ्गात् ।
विमूढो लघुवृत्तेर्वा तयोरैक्यं व्यवस्यति । इति वचनविरोधात् [ ] । यदि पुनरासन्नार्थे निर्विकल्पकस्य बलीयस्त्वात्तद्वैशद्येनानन्तरविकल्पावैशद्यस्याभिभवाद्वैशद्यप्रतिभासो न पुनर्दूरे विपर्ययादिति मतं तदा पुरोवर्तिगोदर्शनवैशद्येनाश्वविकल्पावैशद्यस्याभिभूतिप्रसङ्गात् तत्र वैशद्यप्रतीतिः किन्न स्यात् गोदर्शनभिन्नविषयत्वादश्वविकल्पस्य नैवमिति चेत्, न, नीलदर्शनविकल्पयोरपि भिन्नविषयत्वात्तद्वैशद्याप्रतीतिप्रसङ्गात् । न हि तयोरभिन्नविषयत्वं, स्वलक्षणसामान्ययोरतद्विषययोर्भेदात् । तत्र दृश्यविकल्पयोरेकत्वाध्यवसायान्नीलविकल्पे वैशद्यप्रतिभास इति चेत्, न तत एव दूरेऽपि वैशद्यप्रतिभासप्रसङ्गात् । स्यान्मतं, प्रत्यासन्नेऽर्थे विकल्प्ये दृश्यस्याध्यारोपाद्विकल्पवैशद्यं दूरे तु दृश्ये विकल्प्य - स्याध्यारोपाद्दर्शनावैशद्यं प्रतीयते, कुतश्चिद्विभ्रमात् इति तदप्यसारं, चन्द्रार्कादावतिदूरे अष्टसहस्त्रीतात्पर्यविवरणम्
दर्शनविषयाध्यारोपाधिष्ठानविषयकत्वं विकल्पस्य वैशद्यं, विकल्पविषयाध्यारोपाधिष्ठानविषयकत्वं च दर्शनस्यावैशद्यमित्यर्थः । यद्यपि अत्र दर्शनविकल्पयोरन्तराध्यारोपा