________________
४४५
द्वितीयो भागः [परि०२-का. ३१]
(भा०) विशेषाणामशक्यसमयत्वात् । न ह्यनन्ता विशेषाः शक्याः सङ्केतयितुं ततो नाभिधीयेरन् ।
(भा०) असङ्केतितानभिधानात् । विशेषदर्शनवत्तबुद्धावप्रतिभासनादर्थसन्निधानानपक्षणाच्च ।
__न हि स्वलक्षणे दर्शने यथा सङ्केतनिरपेक्षो विशेषः प्रतिभासते तथा शब्दबुद्धावपि, तस्याः स्वलक्षणसन्निधानानपेक्षत्वात्, तदपेक्षत्वेऽतीतानुत्पन्नादिषु शब्दबुद्धेरभावप्रसङ्गात् ।
_ [यदि शब्देन वस्तु नोच्येत तर्हि शब्दोच्चारणं व्यर्थमेव ।] यद्येवं
(भा० ) स्वलक्षणमनभिधेयं सामान्यमवस्तूच्यते इति स्यात् । ततः किं शब्दोच्चारणेन सङ्केतेन वा ? गोशब्दोऽपि गां नाभिधत्ते यथाश्वशब्दस्य । तथा च वस्तुनोऽनभिधाने मौनं यत्किञ्चिचिद्वा वचनमाचरेत्, विशेषाभावात् । अथास्ति विशेषः कथं स्वार्थं नाभिदधीत ? ।
___ मौनाद् यत्किञ्चिनवचनाद्वा यथार्थाभिधानस्य स्वाभिधानं मुक्त्वा विशेषस्यासम्भवात् । ( भा० ) न वै परमार्थंकतानत्वादभिधाननियमः ।
परमार्थंकतानत्वे शब्दानामनिबन्धना ।
न स्यात् प्रवृत्तिरर्थेषु समयान्तरभेदिषु ॥ [ ] इति वचनात् । (भा०) किं तूपादानविशेषादित्यपि वार्तम्, अविकल्पेऽपि तथैव प्रसङ्गात् ।
शक्यं हि वक्तुम् 'अविकल्पकप्रत्यक्षस्य न परमार्थंकतानत्वान्नियमो,
अष्टसहस्रीतात्पर्यविवरणम्
कारणाम
-
युक्तिसिद्धमिति शेषो द्रष्टव्यः । समयान्तरभेदेष्विति तत्तच्छास्त्रप्रसिद्धेषु प्रधानेश्वराद्यर्थेष्वपारमाथिकेष्वित्यर्थः । उपादानविशेषा=विलक्षणविकल्पात् । प्रत्यासन्नेऽर्थ इति