________________
४५४
अष्टसहस्त्रीतात्पर्यविवरणम् मिति नैकत्वप्रत्ययो निर्विषयः, तस्य सत्सामान्यविषयत्वात् । पृथक् सर्वं जीवादि द्रव्यादिपदार्थभेदमाश्रित्यानुभूयते । ततो न पृथक्त्वप्रत्ययोऽपि निविषयः, तस्य द्रव्यादिभेदविषयत्वादिति निवेदितं बोद्धव्यम् । हेतुरत्र ज्ञापकः कारकश्चोच्यते । स चासाधारणो यथास्वं प्रवादिभिर्विशेषेणेष्टत्वात् । स च यथा स्वभेदानां पक्षधर्मत्वादीनां स्वारम्भकावयवादीनां वा विवक्षायां पृथगेव हेतुत्वेन घटावयव्यादित्वेन वा तदभेदविवक्षायामेक एव तथा सर्वं विवादाध्यसितमिति दृष्टान्तदार्टान्तिकघटनात् ।।
[सम्पूर्णपदार्थेषु सदृशपरिणामे सत्यपि कथमेकत्वम् ?] (भा०) कश्चिदाह-सर्वार्थानां समानपरिणामेऽपि कथमैक्यं ? भेदानां स्वभावसाङ्कानुपपत्तेः ।
न हि भावाः परस्परेणात्मानं मिश्रयन्ति, भेदप्रतीतिविरोधात् । तेषामतत्कार्यकारणव्यावृत्त्या समानव्यवहारभाक्त्वेऽपि परमार्थतोऽसङ्कीर्णस्वभावत्वात् । तदुक्तं
सर्वे भावाः स्वभावेन स्वस्वभावव्यवस्थितेः । स्वभावपरभावाभ्यां यस्माद्व्यावृत्तिभागिनः ॥ तस्माद्यतो यथार्थानां व्यावृत्तिस्तन्निबन्धनाः । जातिभेदाः प्रकल्प्यन्ते तद्विशेषावगाहिनः ॥
- अष्टसहस्त्रीतात्पर्यविवरणम्
विशिष्यविश्रान्तं द्रव्यार्थिकनयेनैकीकृतस्यैव पर्यायार्थिकनयेन पृथक्करणात्, तेन पृथक्कृतस्यैव चान्येनैकीकरणात्, सम्मतौ द्रव्योपयोगस्यापश्चिमविकल्पनिर्वचनत्वोक्तेः, कार्यकारणभावप्रवाहपतितानां द्रव्यपर्यायाणां तत्र विश्रान्त्या सम्भवेऽपि सामान्यतस्तदविश्रामात्, नीलादिस्वलक्षणज्ञानस्वलक्षणयोरपि रूपरसादिपर्यायैस्तत्तन्निर्भासभेदैश्च पृथक्त्वेन सर्वथैकत्वायोगात्, तत्तदात्मनि तत्तत्परमाणौ च द्रव्यैक्येऽपि पर्यायाविवक्षाप्रयुक्तद्रव्यविवक्षाया एव शरणत्वात्, देशप्रदेशकल्पनाविनिर्मुक्तवस्तुगोचरैवंभूतनयप्रवृत्तेरपि नयान्तराविवक्षाहेतुकत्वात्, Tद्रव्यार्थिकपर्यायार्थिकोभयप्रवृत्तेरपि सर्वत्र नियमस्य भजनामात्रेण च क्वचन तदपवादस्य शास्त्रसिद्धत्वात्, सर्वेषां नयानां स्वस्ववचनीयसत्यत्वेऽपि च परविचारप्रवृत्तौ मोघत्वादित्यादिरहस्यं सहृदयैः स्वयं बोध्यम् । ज्ञापकः साध्यज्ञानजनकज्ञानविषयः, कारको=