________________
द्वितीयो भागः [परि० २-का० ३४]
४५५ ततो यो येन धर्मेण विशेषः सम्प्रतीयते । न स शक्यस्ततोऽन्येन, तेन भिन्ना व्यवस्थितिः ॥ [
] इति । [अधुना बौद्धस्य पक्षं निराकुर्वन्ति जैनाचार्याः] अत्राभिधीयते-जीवादिभेदानामैक्यं । (भा०) यथैकभेदस्य स्वभावविच्छेदाभावात् ।
न हि स्वभावविच्छेदाभावादृते नीलस्वलक्षणस्य संवेदनस्य वा कस्यचिदेकस्य स्वयमिष्टस्याप्येकत्वनिबन्धनं किञ्चिदस्ति । नापि कथञ्चिद्भिन्नानामपि भावानां सत्सामान्यस्वभावेन विच्छेदोऽस्ति, तथा विच्छेदाभावस्यानुभवात् ।
(भा०) अन्यथैकं सदन्यदसत् स्यात् । ततः समञ्जसं सर्वमेकं सदविशेषादिति ।
सदात्मना सर्वभावानां परस्परमिश्रणेऽपि साङ्कर्याप्रसक्तेः चित्रैकज्ञाननीलादिनि सानां संविदात्मनैकत्वेऽपि साङ्कर्याप्रसक्तिवत् । न हि तेषामनेकत्वे चित्रज्ञानसिद्धिः सर्वथैकत्ववत् । तत एव न किञ्चिद्भिन्नज्ञानं निरंशसंवेदनाद्वैतोपगमादिति चेत्, न, तत्रापि वेद्याकारविवेकसंविदाकारयोः परोक्षप्रत्यक्षयोरेकसंवेदनत्वेऽपि साङ्कर्यानिष्टेरन्यथा संविदाकारस्यापि परोक्षत्वप्रसङ्गात् वेद्याकारविवेकवत् । तस्य वा प्रत्यक्षत्वं संविदाकारवत् स्यात् । न चैवं तद्विप्रतिपत्तिविरोधात् समारोपस्यापि सर्वथाप्यविशेषे क्वचिदेवासम्भवान्निश्चयवत् ।
(भा०) तस्यैव सतो द्रव्यादिभेदात् पृथक्त्वमुदाहरणं पूर्ववत् ।
तथा च बहिरन्तश्च भावानां सदात्मनैकत्वं द्रव्याद्यात्मना पृथक्त्वं च स्वस्वभावः सिद्धो, न पुनरसाधारणं भिन्नं रूपम् । तेन च स्वस्वभावेन व्यवस्थितेः स्वभावपरभावाभ्यां भावाः स्वभावेनानुवृत्तिव्यावृत्तिभागिनो, न पुनरेकान्ततो व्यावृत्तिभागिनः । तस्माद्यतो यतोऽर्थानां व्यावृत्तिस्तन्निबन्धना भेदविशेषा एव
- अष्टसहस्त्रीतात्पर्यविवरणम् अनन्यथासिद्धनियतपूर्ववर्ती, जातिभेदा=अतव्यावृत्तिरूपास्तुच्छाः, तद्विशेषावगाहिनः= स्तद्विशेषाकारज्ञानविषयाः, यथाश्रुतेऽवगाहित्वस्य ज्ञानधर्मस्य जातिभेदविशेषणत्वानुपपत्तेरिति द्रष्टव्यम् । भिन्नं रूपं=गुणान्तरं पदार्थान्तरं वा । इतरस्याविवक्षायां गुणभावादिति