________________
४५६
अष्टसहस्त्रीतात्पर्यविवरणम् प्रकल्प्यन्ते, न जातिविशेषाः प्रतीतिविरोधात् । यतो यतस्त्वनुवृत्तिस्ततस्ततो जातयः प्रकल्प्यन्ते, तासामेवानुवृत्तिप्रत्ययलिङ्गत्वात् । ततो यो येन धर्मेण विशेषोऽविशेषश्च सम्प्रतीयते, न स शक्यस्ततोऽन्येन । तेन भिन्नाभिन्ना च व्यवस्थितिः पदार्थानां, तथाप्रतीतेर्बाधकाभावात् । ततः स्थितमेतत्, सत्सामान्यविवक्षायां सर्वेषामैक्यं, द्रव्यादिभेदविवक्षायां पृथक्त्वमेव, इतरस्याविवक्षायां गुणभावात् ॥३४॥
विवक्षाविवक्षयोरसद्विषयत्वान्न तद्वशात्तत्त्वव्यवस्था युक्ता इति मन्यमानं प्रत्याहुः सूरयः
विवक्षा चाविवक्षा च विशेष्येऽनन्तधर्मिणि । सतो विशेषणस्यात्र नासतस्तैस्तदर्थिभिः ॥३५॥
क्रियते इति शेषः । विशेष्योऽर्थस्तावदनन्तधर्मा प्रागुक्तः । तत्र कस्यचिद्विशेषणस्यैकत्वस्य सत एव विवक्षा पृथक्त्वस्य च सत एव वाविवक्षा, न पुनरसतः क्रियते तैः प्रतिपत्तृभिरेकत्वपृथक्त्वाभ्यामर्थिभिः, सर्वथा तत्र कस्यचिदर्थित्वानथित्वयोरसम्भवात्, तस्य सकलार्थक्रियाशक्तिशून्यत्वात् खरविषाणवत् ।
- अष्टसहस्रीतात्पर्यविवरणम् गुणभावः तत्प्रकारकबोधोद्देशेन वचनाप्रवृत्तावप्यभेदसंसर्गप्रवेशमर्यादया भानं, तत्र मूलं चानन्तधर्मात्मके वस्तुन्येकोऽपि धर्मस्तदितरसकलधर्माभिन्नत्वविशिष्टसंसर्गेण भातीति व्युत्पत्तिः । ननु एकत्वमभेदः पृथक्त्वं च भेदः साधनमेकं पक्षधर्मत्वादिना न भिद्यते किन्तु भिन्नप्रकारकप्रतीतिविषयो भवतीति दृष्टान्तावष्टम्भेन जीवादिवस्तुन्येकत्वपृथक्त्वयोरन्योन्यानुगमसाधनं युक्तिरिक्तमिति चेत्, न, धूमो वह्नौ धूमत्वेनैको हेतुः पक्षधर्मत्वादिरूपैः पृथग्रूपः, दण्डो घटे दण्डत्वेन हेतुर्द्रव्यत्वेन न हेतुरिति प्रतीत्या हेतावेकत्वपृथक्त्वयोर्भेदाभेदयोश्चान्योन्यानुगमसिद्धान्तदृष्टान्तेन जीवादिवस्तुनि तत्साधनस्य युक्तिपथानतिवत्तित्वात् । (शङ्का) न च द्रव्यत्वेन न हेतुरित्यत्र द्रव्यत्वानवच्छिन्नहेतुतावानर्थः, (समा०) मूले वृक्षः संयोगी न शाखायामित्यत्रापि शाखानवच्छिन्नसंयोगवद्विषयकत्वापत्तेः, दण्डोऽदण्डश्च द्रव्यत्वेन न हेतुरित्यत्रागतेश्च । युक्तिसिद्धे च भेदस्याव्याप्यवृत्तित्वे किमेकत्रापेक्षया भेदाभेदोभयावगाहिप्रतीतेरन्यविषयत्वकदर्थनेन । न च द्रव्यत्वावच्छिन्नतादात्म्येन हेतुमति द्रव्यत्वेन हेतुभेदोऽप्यसम्भवतीति शङ्कनीयम्, तादात्म्येन