________________
द्वितीयो भाग: [ परि० २ - का० ३५ ]
४५७
[विवक्षाया विषयोऽसदेवेति मन्यमाने बौद्धेन जैनाचार्याः समादधते ।]
न हि कस्यचिद्विवक्षाविषयस्य मनोराज्यादेरसत्त्वे सर्वस्यासत्त्वं युक्तं, कस्यचित् प्रत्यक्षविषयस्य केशोण्डुकादेरसत्त्वे सर्वस्य प्रत्यक्षविषयस्यासत्त्वप्रसङ्गात् । प्रत्यक्षाभासविषयस्यासत्त्वं न पुनः सत्यप्रत्यक्षविषयस्येति चेत्, तर्ह्यसत्यविवक्षाविषयस्यासत्त्वमस्तु, सत्यविवक्षाविषयस्य तु मा भूत् । न काचिद्विवक्षा सत्या विकल्परूपत्वान्मनोराज्यादिविकल्पवदिति चेत्, न, अस्यानुमानस्य सत्यत्वेऽनेनैव हेतोर्व्यभिचारात् तदसत्यत्वे साध्याप्रसिद्धेः । यतोऽनुमानविकल्पादर्थं परिच्छिद्य प्रवर्तमानोऽर्थक्रियायां न विसंवाद्यते । तद्विषयः सन्नेवेति चेत्, तर्हि यतो विवक्षाविशेषादर्थं विवक्षित्वा प्रवर्तमानो न विसंवाद्यते तद्विषयः कथमसन् भवेत् ? ।
[अविवक्षाया विषयोऽसदेवेति बौद्धेन मन्यमाने जैनाचार्याः समादधते ।]
अविवक्षाविषयोऽसन्नेवान्यथा तदनुपपत्तेरिति चेत्, न, सकलवाग्गोचरातीतेनार्थस्वलक्षणेन व्यभिचारात् । सर्वस्य वस्तुनो वाच्यत्वान्नाविवक्षाविषयत्वमिति चेत्, न नाम्नस्तद्भागानां च नामान्तराभावादन्यथानवस्थानुषङ्गात् । तेषामविवक्षाविषयत्वेऽपि सत्त्वे कथमन्यदपि विशेषणमविवक्षाविषयत्वे सदेव न सिद्ध्येत् ? तदेवं,
(भा०) विधिप्रतिषेधधर्माणां सतामेव विवक्षेतराभ्यां योगस्तदर्थिभिः क्रियते, अन्यथार्थनिष्पत्तेरभावात् ।
न ह्यर्थक्रियार्थिनामर्थनिष्पत्तिमनपेक्ष्य विवक्षेतराभ्यां योगः सम्भवति, येन तदभावेऽपि स स्यात् ।
अष्टसहस्त्रीतात्पर्यविवरणम्
तत्तद्धेतुतत्तद्भेदयोस्तत्तद्धेतुतावच्छेदकतदनवच्छेदकभेदेन सत्त्वस्वीकारात् प्रतियोग्यनवच्छेदकस्याभावावच्छेदकत्वेऽतिप्रसङ्गस्तु कथञ्चित्पक्षेणैव प्रतीत्यबाधया परिहरणीय इति
दिग् ||३४||
विकल्परूपत्वादिति, न च पक्षावृत्तित्वेनास्यासिद्धत्वं, विवक्षाया मोहाभिव्यक्तचैतन्यरूपत्वेनास्य पक्षवृत्तित्वात्, नाम्नो = घटादिनाम्नः, तद्भागानां च घकार