________________
४५८
अष्टसहस्त्रीतात्पर्यविवरणम् (भा०) उपचारमात्रं तु स्यात् न चाग्निर्माणवक इत्युपचारात् पाकादावुपयुज्यते ।
ननु चान्यव्यावृत्तय एव विवक्षेतराभ्यां युज्यन्ते, न वस्तुस्वभावो, यतस्तयोः सद्विषयत्वमिति चेत्, न शब्देभ्यो वस्तुनि प्रवृत्तिविरोधात् । व्यावृत्तितद्वतोरेकत्वाध्यारोपात्तद्वति प्रवृत्तिरिति चेत्, न, अध्यारोपस्य विकल्पत्वेनार्थाविषयत्वात् स्वाविषयेण व्यावृत्तेरेकत्वारोपणायोगात् । सामान्येनार्थोऽध्यारोपविकल्पविषय एवेति चेत्, तदपि यद्यन्यव्यावृत्तिरूपं तदा व्यावृत्त्यैव व्यावृत्तेरेकत्वारोपात्कुतोऽर्थे प्रवृत्तिः ? तामिच्छता
(भा०) तदेकैकशः परस्परव्यावृत्तयोऽपि परिणामविशेषाः एषितव्याः ॥३५॥
योऽप्याह-भेद एव परमार्थसन्नर्थानां नाभेदस्तस्य संवृतिसत्त्वादन्यथा विरोधादिति । अभेद एव तात्त्विको भावानां न भेदस्तस्य कल्पानारोपितत्वादन्यथा विरोधानुषङ्गादिति चापरः । तौ प्रति सूरयः प्राहुः
प्रमाणगोचरौ सन्तौ भेदाभेदौ न संवती ।
तावेकत्राविरुद्धौ ते गुणमुख्यविवक्षया ॥३६॥
अभेदस्तावत्सन्नेव न पुनः संवृतिविषयः प्रमाणगोचरत्वाद्भेदवत् । भेदः सन्नेव न पुनः संवृतिः प्रमाणगोचरत्वादभेदवत् । भेदाभेदौ सन्तावेव, न पुनः संवृती, प्रमाणगोचरत्वात्स्वेष्टतत्त्ववदित्यपि पक्षान्तरमाक्षिप्तं लक्ष्यते, तदुभयसंवृतिवादिनोऽपि सकलधर्मविधुरत्वमनुमन्यमानस्य भावात् । न चात्र साध्य
अष्टसहस्रीतात्पर्यविवरणम् टकाराद्यक्षराणाम्, उपचारमात्रं तु स्यादिति मुख्यार्थबाधतद्योगरूढिप्रयोजनान्यतरसंपत्तेरेव तद्धेतुत्वादिति भावः । न चाग्निरित्यादि ततः सतामेवार्थानामर्थिविवक्षेतराभ्यां योग इति नियूंढम् ॥३५॥
कारिकायां न संवृती इति, संवृतिपदस्य संवृतिविषये लाक्षणिकत्वान्न सांवृतावित्यर्थः । अविरुद्धौ इत्यतः पूर्वं वक्तुमिति शेषः । एकत्राविरुद्धतया वचन एव