________________
द्वितीयो भागः [ परि. २-का० ३६]
४५९ साधनधर्मविकलमुदाहरणं, भेदाभेदतदुभयानुभयैकान्ताभिधायिनां तत्प्रसिद्धः स्याद्वादिवत् । तथैकत्र वस्तुनि भेदाभेदौ परमार्थसन्तौ ते भगवतो न विरुद्धौ प्रमाणगोचरत्वात्स्वेष्टतत्त्ववत् इति सामर्थ्यात् परस्परनिरपेक्षौ भेदाभेदौ विरुद्धावेव प्रमाणागोचरत्वाद्भेदैकान्तादिवत् इति कारिकायामर्थसङ्ग्रहः ।
[प्रमाणस्य किं लक्षणमिति प्रश्ने सत्याचार्याः कथयन्ति] किं पुनः प्रमाणं यद्गोचरत्वमत्र हेतुः ? इति चेत् । (भा०) प्रमाणमविसंवादि ज्ञानमनधिगतार्थाधिगमलक्षणत्वाद् ।
इत्यग्रे वक्ष्यति । अधिगमो हि स्वार्थाकारव्यवसायः । स्वार्थाकारौ च कथञ्चिद्भेदाभेदौ, तदन्यतरापायेऽर्थक्रियानुपपत्तेस्तदेकान्ते सर्वथा तदयोगात् ।
(भा०) तदेवं सति भेदमभेदं वा नान्योन्यरहितं विषयीकरोति प्रमाणम् । न हि बहिरन्तर्वा स्वलक्षणं सामान्यलक्षणं वा तथैवोपलभामहे यथैकान्तवादिभिराम्नायते ।
___ इति भेदैकान्ताभावेऽभेदैकान्तासत्त्वे च परस्परनिरपेक्षतदुभयैकान्तापाकरणेऽनुभयैकान्तापसारणे च साध्ये स्वभावानुपलब्धिः, स्वयमुपलब्धिप्राप्तस्य तस्यानुपलभ्यमानत्वसिद्धेः । न चेयमसिद्धा,
___ (भा०) सूक्ष्मस्थूलाकाराणां स्थूलसूक्ष्मस्वभावव्यतिरेकेण प्रत्यक्षादावप्रतिभासनात् ।
न हि प्रत्यक्षे स्वलक्षणं सूक्ष्म परमाणुलक्षणं प्रतिभासते स्थूलस्य घटाद्यात्मनः प्रतिभासनात् । [प्रत्यक्षज्ञाने परमाणव एव प्रतिभासन्ते न पुनः स्कन्धा इति बौद्धमान्यतां निराकुर्वन्त्याचार्याः] परमाणुष्वेवात्यासन्नासंसृष्टेषु दृष्टौ प्रतिभासमानेषु कुतश्चिद्विभ्रमनिमित्तादात्मनि
- अष्टसहस्त्रीतात्पर्यविवरणम् गुणमुख्यविवक्षाया हेतुत्वसम्भवादित्यर्थः । न चेयमसिद्धेति एतेषु साध्येषु इयं स्वभावानुपलब्धिः सिद्धा न । सूक्ष्मेत्यादिभाष्यम् सूक्ष्मस्थूलाकाराणाम् अवयवावयविरूपाणां विषयाणां स्थूलसूक्ष्मस्वभावव्यतिरेकेण=अवयव्यवयवस्वभावानुपरागेण,