________________
६३६
अष्टसहस्त्रीतात्पर्यविवरणम् बाह्यामर्थक्रियां कुर्वतोऽन्तरङ्गस्वज्ञानलक्षणार्थक्रियाकारणस्यावश्यंभावित्वादन्यथा योगिनोऽसर्वज्ञत्वप्रसङ्गात् पदार्थस्यानेकक्षणस्थायिनः क्रमेणाक्रमेण वानेककार्यकारित्वसिद्धेरेकक्षणस्थायिनोऽनभ्युपगमात् तथा प्रतीत्यभावाच्च । क्रमयोगपद्ययोः परिणामित्वेन व्याप्तिरसिद्धेति चेत्, न, अपरिणामिनः क्षणिकस्येव नित्यस्यापि क्रमयोगपद्यविरोधात् । ततः कस्यचित्परिणामित्वाभावे क्रमयोगपद्याभावादर्थक्रियापायात् सत्त्वानुपपत्तेर्वस्तुत्वसम्भावनाभाव एवेति निश्चितम् ।
[ईश्वरसृष्टिकर्तुत्वं निराकृत्य जैनाचार्याः सृष्टेरनादित्वं साधयन्ति नैयायिकं प्रति ।]
(भा०) तत्र कालदेशावस्थास्वभावभिन्नानां तनुकरणभुवनादीनां किलायं कर्तेति महच्चित्रं,
प्रकृतप्रमाणबाधनात् । (भा०) एतेनेश्वरेच्छा प्रत्युक्ता ।
तस्या अपि नित्यैकस्वभावायाः कार्यवैचित्र्यानुपपत्तेर्वस्तुत्वसम्भावनानुपपत्तेश्चाविशेषात् ।
(भा० ) न चैतेनास्याः सम्बन्धस्तत्कृतोपकारानपेक्षणात् ।
न हि नित्यादेकस्वभावादीश्वरात् कश्चिदुपकार: सिसृक्षायास्तथाविधायाः सम्भवत्यनर्थान्तरभूतो, नित्यत्वविरोधात् । नाप्यर्थान्तरभूतः, सम्बन्धासम्भवादनुपकारात्, उपकारान्तरेऽनवस्थाप्रसङ्गात् ।
(भा०) ततो व्यपदेशोऽपि मा भूत् । ईश्वरस्य सिसृक्षेति । तत्र समवायात्तथा व्यपदेश इति चेत्, न
- अष्टसहस्रीतात्पर्यविवरणम् लक्षणस्य, तदनिष्टतया व्याप्यत्वाभिमतवस्तुत्वाव्याप्यतया ।
T॥ ईश्वरकर्तृत्ववादः ॥ एतेन=एकस्वभावेश्वरखण्डनेन, अभिसन्धेरिति अभिसन्धिरीश्वरे सिसृक्षासम्बन्धः, १. तदतन्निष्ठतया इति अष्टसहस्रीसम्मतः पाठः ।