________________
द्वितीयो भागः [परि १०-का. ९९]
६३५ स्वभावेश्वरकृतः । न तावदयं हेतुरनिश्चितव्यतिरेकत्वादगमकः, साध्याभावेऽनुपपन्नत्वग्राहकप्रमाणसद्भावात् ।
__(भा०) न हि कारणस्यैकरूपत्वे कार्यनानात्वं युक्तं, शालिबीजाङ्कुरवत् ।
प्रसिद्धस्तावदेकस्वरूपाच्छालिबीजादनेकाङ्करकार्यायोगः, स एव दृष्टान्तः स्यात् । ततः साध्विदं विपक्षे बाधकं प्रमाणमेकस्वभावकारणकृतत्वप्रतिषेधस्य साध्यस्याभावे नियमेनैकस्वभावकारणकृतत्वेऽनेककार्यत्वस्य साधनस्य व्यावृत्तिनिश्चयजननात्, विचित्रकार्यं च स्यादेकस्वरूपकारणकृतं च स्यादिति सम्भावनाशङ्काव्यवच्छेदात् । कालादिना व्यभिचारी हेतुरिति चेत्, न, तस्यैकस्वभावत्वैकान्तासिद्धेः ।
(भा०) अपरिणामिनः सर्वथार्थक्रियासम्भवात् तल्लक्षणत्वाद्वस्तुनः सद्भावमेव तावन्न सम्भावयामः ।
सत्त्वस्यार्थक्रियया व्याप्तिरसिद्धेति न मन्तव्यं, तद्रहितस्य खपुष्पादेरसत्त्वनिश्चयात् । नन्वसतोऽप्यसदितिप्रत्ययलक्षणार्थक्रियाकारित्वान्न तया सत्त्वस्य व्याप्तिरिति न शङ्कितव्यं, व्यापकस्य तदतन्निष्ठतया व्याप्याभावेऽपि भावाविरोधात् तद्व्याप्तेरखण्डनात् । क्रमयोगपद्याभ्यामर्थक्रियाव्याप्तिरसिद्धेति चेत्, न, प्रकारान्तरेणार्थक्रियायाः सम्भवाभावात् । एकस्यैकामेवार्थक्रियां सम्पादयतो न क्रमो नापि यौगपद्यं, तस्यानेककार्यविषयत्वादिति चेत्, न, तादृशस्य वस्तुनोऽसम्भवात् । सर्वस्य
- अष्टसहस्त्रीतात्पर्यविवरणम्
स्वभावकारणकृतमिति योजनीयम् । शालिबीजाङ्करवदिति शालिबीजादेकरूपाच्छाल्यङ्करस्यैवोत्पत्तिर्न त्वन्यस्येति दर्शनादिति भावः । ततोऽसाध्विदं विपक्षे बाधकं प्रमाणमिति, व्यावृत्तिनिश्चयजननादित्यग्रेतनमत्र सम्बन्ध्यते, तत्र च पञ्चमी ल्यब्लोपे व्यावृत्तिनिश्चयजननमभिप्रेत्य यदिदं विपक्षे बाधकं प्रमाणमुक्तं तदसाध्विति योगः, शङ्काव्यवच्छेदादित्यत्र चाऽकारप्रश्लेषः कार्यः । कालादिना इत्यनन्तरं च चकारोऽध्याहार्यः, सद्भावमेवेत्यतः पूर्वमेकान्तनित्यस्य क्षणिकस्य वेति शेषः । व्यापकस्य अर्थक्रिया
१. ततः साधु इति अष्टसहस्रीसम्मतः पाठः ।