________________
अष्टसहस्त्रीतात्पर्यविवरणम्
ज्ञानाविनाभाविनामेवेष्टानिष्टफलदानसमर्थकर्मबन्धहेतुत्वसमर्थनात् मिथ्यादर्शनादीनामपि सङ्ग्रहात् सङ्क्षेपत इति बुध्यामहे । ततो मोहिन एवाज्ञानाद्विशिष्टः कर्मबन्धो न वीतमोहादिति सूक्तम् ।
६३४
(भा०) तथैव बुद्धेरपकर्षान्मोहनीयपरिक्षयलक्षणान्मोक्ष्यति विपर्य विपर्यासादित्यधिगन्तव्यम् ।
प्रकृष्टश्रुतज्ञानादेः क्षायोपशमिकात् केवलापेक्षया स्तोकादपि छद्मस्थवीतरागचरमक्षणभाविनः साक्षादार्हन्त्यलक्षणमोक्षस्य सिद्धेः । तद्विपरीतात्तु मोहवतः स्तोकज्ञानात् सूक्ष्मसम्परायान्तानां मिथ्यादृष्ट्यादीनां कर्मसम्बन्ध एव इति चिन्तितमन्यत्र ॥ ९८ ॥
नन्वस्तु मोहप्रकृतिभिः कामादिदोषात्मिकाभिः सहचरितादज्ञानात् पुण्यपापकर्मणोः शुभाशुभफलानुभवननिमित्तयोः प्राणिनां बन्धः । स तु कामादिप्रभवो महेश्वरनिमित्त एवेत्याशङ्कामपाकर्तुमिदमाहुः
कामादिप्रभवश्चित्रः कर्मबन्धानुरूपतः ।
तच्च कर्म स्वहेतुभ्यो जीवास्ते शुद्धयशुद्धितः ॥ ९९ ॥
कामादिप्रभव
(भा०) भावसंसारोऽयं नैकस्वभावेश्वरकृतस्तत्कार्यसुखदुःखादिवैचित्र्यात् ।
यस्य यस्य कार्यवैचित्र्यं तत्तन्नैकस्वभावकारणकृतं यथानेकशाल्यङ्कुरादिविचित्रकार्यं शालिबीजादिकं, सुख:दुखादिकार्यवैचित्र्यं च संसारस्य तस्मान्नायमेकअष्टसहस्त्रीतात्पर्यविवरणम्
कर्मबन्धसामान्ये द्वादशगुणस्थानसम्भव्यज्ञानस्यैव हेतुत्वकल्पनात्तत्रैव तदन्तर्भावादित्यर्थः । वीतमोहात्=मोहरहितात् । भाष्ये बुद्धेरपकर्षात् = अपकृष्टबोधात्, मोहनीयपरिक्षयलक्षणात्=कषायमोहोदयाभावविशिष्टात् मोक्षः = कैवल्यात्मा जीवन्मोक्षः, विपर्यये= मोहक्षयाभावे बुद्धेरपकर्षे, विपर्ययाद् बन्धसम्भवादित्यर्थः । तथा च मोहक्षयविशिष्टज्ञानत्वेन कैवल्यहेतुतैवेत्यर्थः ॥९८॥
यस्य यस्येति यस्य यस्य कारणस्य यद् यत्कार्यवैचित्र्यं तस्य तस्य तत्तन्नैक