________________
द्वितीयो भाग: [ परि० १० का ० ९७-९८ ]
६३३
तर्हि प्राणिनां पुद्गलविशेषसम्बन्धस्य धर्मित्वे तथात्वस्य च हेतुत्वे दृष्टान्तासिद्धिप्रसक्तेः प्रकृतिप्रदेशबन्धाभ्यामनैकान्तिकत्वप्रसङ्गाच्च विवादापन्नत्वविशेषणमिष्टानिष्टफलदानसमर्थत्वविशेषणं च युक्तम् । इष्टानिष्टफलदानसमर्थपुद्गलविशेषसम्बन्धत्वस्य हेतोः कषायैकार्थसमवेताज्ञाननिबन्धनत्वेन व्याप्तस्य पथ्येतराहारादिषु पुद्गलविशेषसम्बन्धे सुप्रसिद्धत्वादुदाहरणस्य साध्यसाधनधर्मवैकल्याभावात्, हेतोश्चानन्वयत्वासम्भवात्, विवादापन्नो धूमोऽग्निजन्मा धूमत्वान्महानसधूमवदित्यादिवत् ।
[ नैयायिकः कर्म आत्मनो गुणं मन्यते,
किन्तु जैनाचार्याः तन्मान्यतां निराकृत्य कर्म पौद्गलिकं साधयन्ति ।]
न चेष्टानिष्टफलदानसमर्थः कर्मबन्धः पुद्गलविशेषसम्बन्धो न भवति, पुद्गलसम्बन्धेन विपच्यमानत्वाद् व्रीह्यादिवत् । जीवविपाकिषु कर्मसु तदभावात्पक्षाव्यापको हेतुरिति चेत्, न तेषामपि सकर्मजीवसम्बन्धेन विपच्यमानत्वात् पुद्गलसम्बन्धेन विपच्यमानत्वस्य प्रसिद्धेः पुद्गल क्षेत्रभवविपाकिकर्मवत् पक्षव्यापकत्वसिद्धेः । पूर्वानुभूतविषयस्मरणेन सुखदुःखदायिषु कर्मसु तदभावात् पक्षाव्यापकत्वमस्य हेतोरित्यप्यनेन निराकृतं, परम्परया पुद्गलसम्बन्धेनैव तेषां विपच्यमानत्वाच्च । न किञ्चित्कर्म साक्षात्परम्परया वात्मनः पुद्गलसम्बन्धमन्तरेण विपच्यमानमस्ति येन पौद्गलिकं न स्यात् । ततो न कर्मबन्धस्य पुद्गल - विशेषसम्बन्धित्वमसिद्धम् । नापीष्टानिष्टफलदानसमर्थत्वं, दृष्टकारणव्यभिचारे शुभेतरफलानुभवनस्य स्वसंविदितस्यादृष्टहेतुत्वसिद्धेः, रूपादिज्ञानस्य चक्षुराद्यदृश्यहेतुवत् । नन्वेवमज्ञानहेतुकत्वे बन्धस्य मिथ्यादर्शनादिहेतुत्वं कथं सूत्रकारोदितं न विरुद्ध्यते इति चेत्, मिथ्यादर्शनाविरतिप्रमादकषाययोगानां कषायैकार्थसमवाय्य
अष्टसहस्त्रीतात्पर्यविवरणम्
असाधारण्यं त्वनुकूलतर्कसाचिव्यान्न दोष इति भावः । तर्हीति तथा च पक्षतावच्छेदकमात्रस्याहेतुत्वान्न काऽपि दोषाशङ्केति भावः । आश्रयासिद्धिमाशङ्क्य परिहरति-न चेष्टानिष्टेत्यादिना । उक्तहेतौ भागासिद्धिमाशङ्क्य परिहरति- जीवविपाकिष्वित्यादिना । एवं विशिष्टाज्ञानैकहेतुकत्वे कर्मबन्धस्य व्यवस्थितेः सूत्रविरोधमाशङ्क्य परिहरतिनन्वेवमित्यादिना । सङ्ग्रहात् सङ्क्षेपत इति मिथ्यादर्शनादीनां कर्मबन्धविशेषहेतुत्वेऽपि