________________
६३२
अष्टसहस्त्रीतात्पर्यविवरणम् मिथ्याज्ञानस्य च अज्ञानस्य च मोहनीयकर्मप्रकृतिं लक्षयतः पुंसो बन्धनिबन्धनत्वोपपत्तेः सकषायत्वाज्जीवः कर्मणो योग्यान्युद्गलानादत्ते स बन्ध इति वचनात् [तत्त्वा० ८.२] ।
(भा०) ततोऽन्यतोऽपि बन्धाभ्युपगमेऽतिप्रसङ्गात् । क्षीणोपशान्तकषायस्याप्यज्ञानाद् बन्धप्रसक्तेः । [केवलिनोऽपि प्रकृतिप्रदेशबन्धौ स्तः इति कथने सति कथयन्ति आचार्याः
___ यत् तौ बन्धौ संसारकारणे न स्तः अकार्यकारित्वात् ।] प्रकृतिप्रदेशबन्धस्तस्याप्यस्तीति चेत्, न, तस्याभिमतेतरफलदानासमर्थत्वात् सयोगकेवलिन्यपि सम्भवादविवादापन्नत्वात् । न चात्रागममात्रं, युक्तेरपि सद्भावात् । तथा हि-विवादापन्नः प्राणिनामिष्टानिष्टफलदानसमर्थपुद्गलविशेषसम्बन्धः कषायैकार्थसमवेताज्ञाननिबन्धनस्तथात्वात्पथ्येतराहारादिसम्बन्धवत् ।
नात्र प्रतिज्ञार्थंकदेशत्वादसिद्धो हेतुर्धर्मिणानेकान्तात, तस्य प्रतिज्ञार्थधर्मिधर्मसमूहैकदेशत्वेऽपि प्रसिद्धत्ववचनात्, अनित्यः शब्दः शब्दत्वादित्यत्रापि हेतोरसिद्धत्वविरोधात् । न चात्र विशेषं धर्मिणं कृत्वा सामान्यं हेतुं ब्रुवतः कश्चिद्दोषः, प्रयत्नानन्तरीयकः शब्दो विनश्वरः, प्रयत्नानन्तरीयकत्वाद् घटवदिति यथा । ननु शब्दस्य धर्मित्वे पक्षाव्यापको हेतुः स्यात्, समुद्रघोषादेः प्रयत्नानन्तरीयकत्वाभावात् । ततोऽत्र प्रयत्नानन्तरीयक: शब्दो विशिष्टो धर्मीति चेत्,
- अष्टसहस्रीतात्पर्यविवरणम् - ज्ञानस्याज्ञानस्य' चेति प्रसज्यपर्युदासाभ्यामज्ञानपदस्योभयार्थत्वादिति भावः । क्षीणोपशान्तेति न च एवं कषायत्वेनैव सामान्यतो बन्धहेतुता किं कषायविशिष्टाज्ञानत्वेन गुरुतरकार्यकारणभावेन ? इति वाच्यम् । अन्वयव्यतिरेकग्रहस्यैव तत्र साक्षित्वात्, तयोश्च पथ्येतराहारादिसम्बन्धदृष्टान्तेन कर्मपुद्गलसम्बन्धं प्रत्यज्ञानत्वेनैव प्रसिद्धः, तत्रातिप्रसङ्गभङ्गार्थं पुनः कषायैकसमवेतत्वविशेषणनिवेशात्, पटादौ तन्तुत्वादिना कारणत्वेऽप्यन्वयव्यतिरेकानुविधानस्यैव प्रयोजकत्वात्, अन्यथा शक्तिविशेषाभावविशेषादेरेव हेतुत्वप्रसङ्गाद्विशेषणविशेष्यभावेन विनिगमनाविरहस्याप्यत एव निरासादिति दिग । न चात्रेति पक्षतावच्छेदकावच्छेदेन साध्यसिद्धरुद्देश्यत्वाच्चात्र न ध्वनिरूपशब्दे सिद्धसाधनम्,
१. मिथ्याज्ञानस्य च इति अष्टसहस्रीसम्मत पाठः ।