________________
द्वितीयो भाग: [ परि० १० का ० ९७-९८ ]
६३१
( भा० ) यदि पुनर्ज्ञाननिर्ह्रासाद् ब्रह्मप्राप्तिरज्ञानात् सुतरां प्रसज्येत, दुःखनिवृत्तेरिव सुखप्राप्तिः ।
न ह्यल्पदुःखनिवृत्तेः सुखप्राप्तौ बहुतरदुःखनिवृत्तौ सुतरां सुखप्राप्तिरसिद्धा, येन ज्ञानहानेरल्पायाः परब्रह्मप्राप्तौ सकलाज्ञानात्तत्प्राप्तिः सुतरां न स्यात् । ततो नायमेकान्तः श्रेयानाभासते ज्ञानस्तोकान्मोक्ष इति, अज्ञानाद् ध्रुवो बन्ध इत्येकान्तवत्
॥९६॥
विरोधान्नोभयैकात्म्यं स्याद्वादन्यायविद्विषाम् । अवाच्यतैकान्तेऽप्युक्तिर्नावाच्यमिति युज्यते ॥ ९७॥
( भा० ) न हि सर्वात्मनैकस्यैकदा ज्ञानस्तोकान्मोक्षो बहुतश्चाज्ञानाद् बन्ध इत्येकान्तयोरविरोधः स्याद्वादन्यायविद्विषां सिद्ध्यति, येन तदुभयैकात्म्यं स्यात् ।
ततोऽवाच्यतैकान्ते स्ववचनविरोधः पूर्ववत् ॥९७॥
कुतस्तर्हि पुण्यपापबन्धः प्राणिनां येनाबुद्धिपूर्वापेक्षायामिष्टानिष्टं स्वदैवतः स्यात् ? कुतो वा मोक्षो मुनेर्यतः पौरुषादिष्टसिद्धिर्बुद्धिपूर्वा स्यात् ? चार्वाकमतमेव वा बन्धमोक्षाभाव एव परलोकाभावादिति न भवेत् ? इत्यारेकां निराचिकीर्षवः प्राहु:
अज्ञानान्मोहिनो बन्धो न ज्ञानाद् वीतमोहतः । ज्ञानस्तोकाच्च मोक्षः स्यादमोहान्मोहिनोऽन्यथा ॥ ९८ ॥
(भा०) मोहनीयकर्मप्रकृतिलक्षणादज्ञानाद्युक्तः कर्मबन्धः । स्थित्यनुभागाख्यः स्वफलदानसमर्थः, क्रोधादिकषायैकार्थसमवायिनो
अष्टसहस्त्रीतात्पर्यविवरणम्
दिग् । ज्ञाननिर्ह्रासात्=अल्पज्ञानहानेः ॥९६॥
मोहनीयेति मोहनीयकर्मप्रकृतिरत्र कषायाख्या ग्राह्या, तल्लक्षणात्तद्विशिष्टात्, मिथ्या