________________
४६७
द्वितीयो भागः [ परि० ३-का० ३८] बुद्धिपूर्वकत्वात् ।
एतेनाव्यक्तं नित्यमेवेत्यपास्तं, व्यक्तस्यापि नित्यत्वानुषङ्गात् नित्यादव्यतिरिक्तस्याप्यनित्यत्वे चैतन्यस्याप्यनित्यत्वापत्तेः । सर्वथा व्यक्तस्यापि नित्यत्वे प्रमाणकारकव्यापारविरोधात्तदप्रमेयमनर्थक्रियाकारि प्रसज्येत ॥३७॥
प्रमाणकारकैर्व्यक्तं व्यक्तं चेदिन्द्रियार्थवत् । ते च नित्ये विकार्य किं साधोस्ते शासनाद् बहिः ॥३८॥
न हि प्रमाणं नित्यं नाम, तत्कृताभिव्यक्तेः प्रमितिरूपाया महदहङ्कारादौ व्यक्तात्मनि नित्यत्वप्रसङ्गात् । नापि कारकं नित्यं, तद्विहिताभिव्यक्तेरुत्पत्तिरूपाया: सातत्यप्रसक्तेः । तथा च न व्यक्तं प्रमाणकारकैरभिव्यक्तमिन्द्रियैरर्थवदिति शक्यं वक्तुं, पूर्वमनभिव्यक्तस्य व्यञ्जकव्यापारादभिव्यक्तिप्रतीतेः ।
[प्रमाणकारकाणि नित्यानि सन्तीति साङ्ख्यस्य मान्यतां निराकुर्वन्ति आचार्याः ।]
(भा०) अथ मतं-प्रमाणकारकाणि व्यवस्थितमेव भावं व्यञ्जयन्ति चक्षुरादिवत् स्वार्थम् । ततो न किञ्चिद्विप्रतिषिद्धम् ।
इति तदप्यसम्यक्, सर्वथा नित्यत्वेन भावस्याव्यवस्थितत्वात् कथञ्चिदनित्यस्यैव प्रमाणकारकव्यापारविषयत्वविनिश्चयात् । चक्षुरादयो हि स्वार्थ रूपादिकमनभिव्यक्तस्वभावपरिहारेणाभिव्यक्तस्वभावोपपादनेन च व्यञ्जयन्तः स्वयमव्यञ्जकरूपत्यागेन व्यञ्जकत्वस्वीकारणेन च व्यञ्जकव्यपदेशभाजो दृष्टाः । न चैवं प्रमाणं कारकं च परिष्टं तयोर्नित्यत्वाभ्युपगमात् । तत्कृतस्य च
अष्टसहस्रीतात्पर्यविवरणम् प्रमाणसिद्धत्वेन । एतेन आत्मतत्त्वस्यैकान्तनित्यतानिराकरणेन, वक्ष्यमाणकारिकार्थानुसारेण च । इष्टापत्त्याशङ्कायामाह-सर्वथेत्यादि ॥३७॥
प्रमाणेत्यादिकारिकायां ते च नित्ये इत्यन्तेन यदि व्यक्तम् इन्द्रियैरर्थवत् प्रमाणकारकाभ्यां व्यक्तं स्वीक्रियते ते च प्रमाणकारके नित्ये स्वीक्रियते तीत्यध्याहारात्तर्हि= तदा, ते=तव, साधोः शासनाद् हिः=अन्यत्र, विकार्य किं न किञ्चित्, प्रमाणकारककृताभिव्यक्तेरपि सदातनत्वादित्यक्षरार्थः । अत्र प्रमाणकारकरित्यपपाठः बहुवचना