________________
४६८
अष्टसहस्त्रीतात्पर्यविवरणम् (भा०) विषयविशेषविज्ञानादेः शाश्वतत्वान्न किञ्चिद् व्यक्त्यर्थं पश्यामः, कथञ्चिदपूर्वोत्पत्तौ तदेकान्तविरोधात् ।
न ह्यनेकान्तवादिनस्तव साधोः शासनाद् बहिर्विषयविशेषविज्ञानाभिलाषप्रवृत्त्यादेरुत्पत्तिः कथञ्चिदपूर्वा युज्यते, यतोऽस्यामभ्युपगम्यमानायां नित्यत्वैकान्तविरोधो न भवेत् ।
(भा० ) तदभावे विकार्यानुपपत्तेः । न हि कथञ्चिदपूर्वोत्पत्त्यभावे किञ्चिद् व्यङ्ग्यं कार्यं वा विकार्यमुपपद्यते ।
(भा० ) न वै किञ्चिद्विरुद्धं कार्यकारणभावाभ्युपगमादित्यनालोचितसिद्धान्तं,
कार्यस्य सदसत्त्वविकल्पद्वयानतिक्रमात् ॥३८॥
तत्र
यदि सत्सर्वथा कार्यं पुंवन्नोत्पत्तुमर्हति ।
परिणामप्रक्लृप्तिश्च नित्यत्वैकान्तबाधिनी ॥३९॥ (भा०) न तावत्सतः कार्यत्वं चैतन्यवत् ।
न हि चैतन्यं कार्यं, तत्स्वरूपस्य पुंसोऽपि कार्यत्वप्रसङ्गात्, यतस्तद्वन्महदादेः सत एव कार्यत्वं सिद्ध्येत् । (भा०) नाप्यसतः, सिद्धान्तविरोधाद् गगनकुसुमादिवत् ।
- अष्टसहस्रीतात्पर्यविवरणम् क्रान्तस्य ते इति द्विवचनान्ततच्छब्देन परामर्शायोगात्, किन्तु प्रमाणकारकव्यक्तमिति समस्तपाठ एव युक्तः, वृत्तौ बहुवचनान्तपाठस्य तात्पर्यविवरणरूपत्वेनाप्युपपत्तेरिति ध्येयम् । भगवतः साधुत्वेनाभिधानं तच्छासनबहिष्ठानामसाधुत्वेन तदुत्प्रेक्षामात्रकल्पितप्रवचने विचारसम्मर्दासहिष्णुत्वमभिव्यनक्ति । न किञ्चिद् व्यक्त्यर्थं न किञ्चिदभिव्यक्तिप्रयोजनम्, तदेकान्तविरोधात्=नित्यत्वैकान्तविरोधात् ॥३८॥
सूत्रेऽवतरणिकोक्तद्वितीयविकल्पोत्तरन्यूनतां परिजिहीर्षुराह भाष्यकृत्-नाप्यसत