________________
द्वितीयो भागः [परि० ३-का. ४०]
४६९
असदकरणादुपादानग्रहणात्सर्वस्य सम्भवाभावात् ।
शक्तस्य शक्यकरणात् कारणभावाच्च सत्कार्यम् ॥ [साङ्ख्यकारिका-९] इति हि साङ्ख्यानां सिद्धान्तः । स चासतः कार्यत्वे विरुद्ध्यते एव । तथा यत्सर्वथाप्यसत् तन्नोत्पद्यते । यथा गगनकुसुमम् । सर्वथाप्यसच्च कार्य कस्यचिद् इत्यनुमानविरोधश्च प्रत्येयः । (भा०) नापरमेकान्तप्रकारान्तरमस्ति ।
[साङ्ख्यः प्रधानस्य विवर्त एव मन्यते तस्य निराकरणम् ] तत एव न किञ्चित्कार्यं, केवलं वस्तुविवर्त एवेत्येकान्तोऽस्तीति चेत्, न तस्याप्यसम्भवात् ।
(भा०) विवर्तादेः पूर्वोत्तरस्वभावप्रध्वंसोत्पत्तिलक्षणत्वात् । तथोपगमे परिणामसिद्धेरनेकान्ताश्रयणप्रसङ्गात् ।
(भा०) तदेतत् त्रैलोक्यं व्यक्तेरपैति नित्यत्वप्रतिषेधात्, अपेतमप्यस्ति विनाशप्रतिषेधादित्यनेकान्तोक्तिरन्धसर्पबिलप्रवेशन्यायमनुसरति ।
स्वदर्शनानपेक्षं यथोपलम्भमाश्रयस्वीकरणात् । तदेवं नित्यत्वैकान्तवादिनांपुण्यपापक्रिया न स्यात् प्रेत्यभावः फलं कुतः । बन्धमोक्षौ च तेषां न येषां त्वं नासि नायकः ॥४०॥
पुण्यपापक्रिया कायवाङ्मनःकर्मलक्षणा शुभाशुभा । सा प्रधाने तावन्नास्ति, सर्वथा नित्यत्वात्पुरुषवत् । तदभावे पुण्यपापयोः क्रिया उत्पत्तिलक्षणा नास्ति, कारणाभावे कार्यानुदयात् । ततः प्रेत्यभावो जन्मान्तरलक्षणस्तत्फलं च सुखाद्यनुभवलक्षणं कुतः स्यात् ? ततो बन्धमोक्षौ च यथोक्तलक्षणौ न स्तस्तेषां येषां त्वमनेकान्तवादी नायको नासि इति तात्पर्यार्थः । ततो नित्यत्वैकान्तदर्शनं, (भा० ) नैतत् प्रेक्षापूर्वकारिभिराश्रयणीयं, पुण्यपापप्रेत्यभावबन्धमोक्ष
- अष्टसहस्रीतात्पर्यविवरणम् इत्यादि । परिणामसिद्धेरिति तथा च सूत्रे प्रक्तृप्तिपदार्थः प्रसिद्धिरित्यर्थः ॥३९।।