________________
४७०
अष्टसहस्त्रीतात्पर्यविवरणम् विकल्परहितत्वान्नैरात्म्यादिवत् । न चैतत् क्वचिदेकान्ते सम्भवति ।
कुशलाकुशलं कर्मेत्यत्र तदसम्भवस्य समर्थितत्वात् ॥४०॥
सत्यमेतन्नित्यत्वैकान्ते दूषणं क्षणक्षयैकान्तस्यैव प्रातीतिकत्वादिति वदन्तं वादिनं प्रत्याहुः
क्षणिकैकान्तपक्षेऽपि प्रेत्यभावाद्यसम्भवः । प्रत्यभिज्ञाद्यभावान्न कार्यारम्भः कुतः फलम् ? ॥४१॥
क्षणिकैकान्तपक्षे चेतसः कार्यारम्भो नास्ति, प्रत्यभिज्ञानस्मृतीच्छादेरभावात् सन्तानान्तरचित्तवत् । तदभावश्च प्रत्यभिज्ञातुरेकस्यान्वितस्याभावात् । सन्तानः कार्यमारभते इत्यपि मिथ्या, तस्यावस्तुत्वविरोधात् कार्यारम्भकस्य वस्तुत्वात् । चित्तक्षणानां चावस्तुतापत्तिरकार्यारम्भकत्वात् । न च तत्कार्यारम्भकत्वाभावे फलं पुण्यपापलक्षणं सम्भवति । तदभावे न प्रेत्यभावो न बन्धो न च मोक्षः स्यात् ।
इति
(भा०) क्षणक्षयैकान्तदर्शनमहितम्, असम्भवत्प्रेत्यभावादित्वादुच्छेदैकान्तवद् ध्रौव्यैकान्ताभ्युपगमवद्वा ।।
न हि सर्वथोच्छेदैकान्ते शून्यतालक्षणे नित्यत्वैकान्ते वा प्रेत्यभावादिः सम्भवति, यतोऽयं दृष्टान्तः साधनधर्मविधुरः स्यात् । नापि प्रेक्षावतां तदाश्रयणं हितत्वेन मतं, येन साध्यविकल: स्यात् । अथ मतमेतत्, क्षणिकत्वेऽपि चित्तक्षणानां वासनावशात्प्रत्यभिज्ञानं तदेवेदं सुखसाधनमिति स्मरणपुरस्सरमुत्पद्यते । ततोऽभिलाषात्तत्साधनाय प्रवृत्तिरिति कार्यारम्भात्पुण्यपापक्रियासिद्धेः प्रेत्यभावादिसम्भवादसम्भवत्प्रेत्यभावादित्वादिति हेतुरसिद्धो न साध्यसाधनायालमिति, तदसत्,
(भा०) भिन्नकालक्षणानामसम्भवद्वासनत्वादकार्यकारणवत् ।
- अष्टसहस्त्रीतात्पर्यविवरणम्
तस्यावस्तुत्वविरोधादिति सन्तानात्कार्यारम्भस्वीकारे तस्यावस्तुत्वं यत्सौगतैः प्रतिपाद्यते तद्विरुध्यत इत्यर्थः । भिन्नकालेति स्याद्वादिनां तु कारणक्षणस्य द्रव्यप्रत्यासत्त्या