________________
४७१
द्वितीयो भागः [ परि० ३-का० ४१]
पूर्वमेव चित्तमुत्तरोत्पत्तौ वासना तत्कारणत्वादिति चेत्, न, निरन्वयक्षणिकत्वे कारणस्यैवासम्भवात् । तथा हि
[विनष्टं कारणं कथं कार्यं कुर्यात् यथा कारणमिति नाम लभेत ।] (भा०) न विनष्टं कारणमसत्त्वाच्चिरतरातीतवत् । समनन्तरातीतं कारणमिति चेत्, न,
(भा०) समनन्तरत्वेऽप्यभावाविशेषात् । न च पूर्वस्योत्तरं कार्य, तदसत्येव हि भावाद्वस्त्वन्तरवदतिक्रान्ततमवद्वा
यतः पूर्वस्य कारणत्वनिर्णयः स्यात् । तदन्वयव्यतिरेकानुविधानादुत्तरं तत्कार्यमिति चेत्, न तस्यासिद्धेः ।
(भा०) न हि समर्थे ऽस्मिन् सति स्वयमनुत्पित्सोः पश्चाद्भवतस्तत्कार्यत्वं समनन्तरत्वं वा नित्यवत् ।
तद्भावे स्वयमभवतस्तदभावे एव भवतस्तदन्वयव्यतिरेकानुविधानविरोधात् । क्षणिकैकान्ते
(भा०) कारणाभावाविशेषेऽपि कार्योत्पत्तिसमयनियमावक्लृप्तौ कस्यचित्कौटस्थ्येऽपि तत्करणसमर्थसद्भावाभेदेऽपि कार्यजन्मनः कालनियमः किन्न स्यात् ? विशेषाभावात् ।
यथैव हि स्वदेशवत्स्वकाले सति कारणे समर्थे कार्य जायते, नासतीति तदन्वयव्यतिरेकानुविधायीष्यते तथा स्वकालेऽनाद्यनन्ते सति समर्थे नित्ये स्वसमये कार्यमुपजायमानमन्यदानुपजायमानं तदन्वयव्यतिरेकानुविधायि कथं नानुमन्यते ?
- अष्टसहस्रीतात्पर्यविवरणम् कार्यकालेऽपि सत्त्वान्न सर्वथा भिन्नकालत्वमिति नोभयोरस्य दोषस्य तुल्ययोगक्षेमत्वम् । न च स्वाभिन्नद्रव्यसामान्याभिन्नत्वादिना अतिप्रसङ्गः, अनन्तधर्मात्मके वस्तुनि द्रव्यप्रत्यासत्तेविशिष्य भेदेऽनुपपत्त्यभावात्, यथा चास्माभिरुपादेयोत्पत्तावुपादानस्य स्वध्वंसत्वसम्बन्धेन नियामकत्वमुक्तं तथासमर्थने न दोषलेशोऽपि, स्वध्वंसत्वस्यापि द्रव्यपरिणतिप्रयुक्तत्वेन द्रव्यप्रत्यासत्तिताया अक्षतत्वादिति मन्यव्यम् । तदसत्येव हीति भावप्रधाननिर्देशात्तदसत्त्व एव हीत्यर्थः । स्वदेशवत् स्वकाल इति कार्याधिकरण