________________
४७२
अष्टसहस्त्रीतात्पर्यविवरणम् सर्वदा समर्थे नित्ये कारणे सति स्वकाले एव कार्यं भवत्कथं तदन्वयव्यतिरेकानुविधायीति चेत्, तहि कारणक्षणात्पूर्वं पश्चाच्चानाद्यनन्ते तदभावे विशेषशून्येऽपि क्वचिदेव तदभावसमये भवत्कार्यं कथं तदन्वयव्यतिरेकानुविधायि ? इति न कश्चिद्विशेषः । तदेवमन्वयव्यतिरेकानुविधानाभावाविशेषेऽपि क्षणिकैकान्ते एव कार्यजन्मेति वचनमभिनिवेशमात्रनिबन्धनम् ।
[कारणस्य निरन्वयविनाशानन्तरमेव यदि कार्यं भवेत्तर्हि
तत्कार्यं निर्हेतुकं भविष्यतीति जैनाचार्याः कथयन्ति ।] (भा०) तथा चाकस्मिकत्वं स्यात् ।
समर्थं कारणमनपेक्ष्य स्वयमभिमतसमये भवतः कार्यस्य निर्हेतुकत्वप्रसक्तेनित्यकार्यवत् ।
(भा०) उभयत्राविशेषेण कथञ्चिदनुपयोगेऽपि क्वचिद्व्यपदेशकल्पनायामन्यत्रापि किं न भवेत् ?
क्षणिकस्य कारणस्य सर्वथा कार्यं प्रत्युपयोगाभावेऽपि तस्येदं कार्यमिति व्यपदिश्यते, न पुननित्यस्य तादृश इति न किञ्चिन्निबन्धनमन्यत्र महामोहात् । नित्यस्य प्रतिक्षणमनेककार्यकारित्वे क्रमशोऽनेकस्वभावत्वसिद्धेः कथमेकत्वं स्यादिति चेत्, क्षणिकस्य कथमिति समः पर्यनुयोगः । [क्षणिकेऽनेकस्वभावो नास्त्यतः कथं क्षणिकनित्ययोः साम्यमित्याशङ्कायामाचार्याः समादधते]
स हि
- अष्टसहस्त्रीतात्पर्यविवरणम्
देशावच्छिन्नकार्यकाल इत्यर्थः । न कश्चिद्विशेष इति यदा कारणं तदव्यवहितोत्तरसमये कार्योत्पत्तिरिति व्याप्तौ अव्यवहितत्वप्रवेशे बीजाभावात्, अव्यवहितत्वस्य द्वित्रादिक्षणसाधारण्येन विनिगमकाभावाच्चेत्यर्थः, व्यवहितजन्मनि कार्यत्वबुद्ध्यनुदयादव्यवहितत्वप्रवेशे तु कार्याभावकालोत्पत्तिकेऽपि तदनुदयात् कथञ्चित्कार्यसहभावोऽपि कारणस्य कार्योत्पत्तिनियामक आस्थीयतामिति भावः । तादृशो अनुपयुक्तस्य, क्षणिकस्येति वक्ष्यमाणरीत्या क्षणिकस्याप्यनेककार्यकारित्वात्, कथमेकत्वमिति पर्यनुयोगः सम इत्यर्थः, क्षणिकस्येत्यत्र प्रतिक्षणमित्यादि प्राक्तनं सर्वं योजनीयम् । यत्त्वत्र स्वाभावकाले