________________
६४०
अष्टसहस्त्रीतात्पर्यविवरणम्
बुद्धिमतः स्रष्टुमिच्छतः प्रयत्नवतः शश्वदीश्वरस्य समस्तकारकप्रयोक्तृत्वोपपत्तेर्न दृष्टान्तव्यतिक्रमः, सशरीरत्वेतरयोः कारकप्रयुक्ति प्रत्यङ्गत्वात् । न हि सर्वथा दृष्टान्तदार्ष्टान्तिकयोः साम्यमस्ति तद्विशेषविरोधाद्' इति तदयुक्तं वितनुकरणस्य बुद्धीच्छाप्रयत्नानुपपत्तेर्मुक्तात्मवत्, शरीराद् बहिः संसार्यात्मवत्, कालादिवद्वेति । शरीरेन्द्रियाद्युत्पत्तेः पूर्वमात्मना व्यभिचार इति चेत्, न तस्यापि बुद्धीच्छाप्रयत्नरहितत्वोपगमादन्यथा स्वमतविरोधात् । परेषां तु तस्य सशरीरस्यैव बुद्ध्यादिमत्त्वाभ्युपगमान्न तेनानेकान्तः । ननु चेश्वरस्य धर्मित्वे तदप्रतिपत्तावाश्रयासिद्धो हेतुरिति चेत्, न, प्रसङ्गसाधनेऽवश्यमाश्रयस्यानन्वेषणीयत्वात् तत्प्रतिपत्तिसद्भावाच्च । ननु यतः प्रमाणादीश्वरस्यास्मद्विलक्षणस्य धर्मिणः प्रतिपत्तिस्तेनैव हेतुर्बाध्यते इति चेत्, न, आत्मान्तरस्य सामान्येनेश्वराभिधानस्य धर्मित्वात् सकलकारकप्रयोक्तृत्वेन बुद्ध्यादिमत्त्वेन च तस्य विवादापन्नत्वात् ।
[योगः ईश्वरस्याशरीरत्वमनादिनिधनं साधयितुमिच्छति किन्तु जैनाचार्या निराकुर्वन्ति ।]
अथ ‘तन्वादिकारकाणि विवादापन्नानि चेतनाधिष्ठितानि, विरम्यप्रवृत्त्यादिभ्यो वास्यादिवदित्यनुमानात् समस्तकारकप्रयोक्तृत्वं बुद्ध्यादिसम्पन्नत्वं चेश्वरस्य साध्यते ततोऽशरीरेन्द्रियत्वम्, अनाद्यनन्ततन्वादिकार्यसन्ताननिमित्तकारणस्यानाद्यनन्तत्वसिद्धेरनाद्यनन्तस्य शरीरत्वविरोधात् । अशरीरत्वमपि तस्यानाद्यनन्तमस्तु बुद्धीच्छाप्रयत्नवत्' इति मतं तदयुक्तं, प्रमाणबाधनात् । तथा हि, नेश्वरेऽशरीरअष्टसहस्त्रीतात्पर्यविवरणम्
वच्छेदेन साध्यसिद्धेरुद्देश्यत्वाच्च न घटादिरूपकार्यस्य सकर्तृकत्वसिद्ध्याऽशतोऽपि तत् । न च अत्र शरीरजन्यत्वमुपाधिरङ्करादौ साध्यव्यापकत्वसन्देहेऽपि सन्दिग्धोपाधित्वस्य दुर्वारत्वेन तदाहितव्यभिचारसंशयसत्त्वेनानुमानानवताराल्लाघवाद् व्यभिचारज्ञानत्वेनैव विरोधित्वात् पक्षतत्समयोरपि व्यभिचारसंशयस्य तथात्वादिति वाच्यम्, प्रकृते कार्यत्वावच्छिन्नं प्रति कर्तृत्वेन कारणत्वनिश्चयाल्लाघवतर्कावतारे व्यभिचारसंशयस्याविरोधित्वात्, अनुकूलतर्कानवतार एव व्यभिचारसंशयाधायकस्य सन्दिग्धोपाधेर्दोषत्वादित्याहुः । वितनुकरणस्येति ईश्वरः बुद्धीच्छाप्रयत्नवान्न भवति, वितनुकरणत्वान्मुक्तात्मवदिति प्रयोगः । परेषां तु=जैनानां तु, तस्य शरीरेन्द्रियाद्युत्पत्तिप्राक्कालवर्तिन आत्मनः सशरीरस्यैवेति अत्र तैजसकार्मणाभ्यामिति शेषः । तत्प्रतिपत्तिसद्भावाच्चेति तथा च विकल्पसिद्धधर्म्युपगमान्नाश्रयासिद्धिरिति भावः । नेश्वर इति यद्यपि अशरीरत्वं शरीरपरिग्रहात्यन्ताभावो