________________
६४१
द्वितीयो भागः [परि० १०-का. ९९] त्वमनाद्यनन्तमशरीरत्वात्, परप्रसिद्ध्या कायकरणोत्पत्तेः पूर्वमस्मदाद्यशरीरत्ववत् । नेश्वरबुद्ध्यादयो नित्या बुद्ध्यादित्वादस्मदादिबुद्ध्यादिवदिति । एतेनागमात् अपाणिपाद इत्यादेरीश्वरस्याशरीरत्वसाधनं प्रत्याख्यातं, तस्य युक्तिबाधितत्वात् । ततः एव सशरीरो महेश्वरोऽस्त्विति चेत्, न, तच्छरीरस्यापि बुद्धिमत्कारणापूर्वकत्वे तेनैव कार्यत्वादिहेतूनां व्यभिचारात् । तस्य बुद्धिमत्कारणपूर्वकत्वे वापरापरशरीरकल्पनायामनवस्थाप्रसङ्गात् पूर्वपूर्वस्वशरीरेणोत्तरोत्तरस्वशरीरोत्पत्तौ भवस्य निमित्तकारणत्वे सर्वसंसारिणां तथा प्रसिद्धेरीश्वरकल्पनावैयर्थ्यात्, स्वोपभोग्यभवनाद्युत्पत्तावपि तेषामेव निमित्तकारणत्वोपपत्तेः, इति न कार्यत्वाचेतनोपादानत्वसन्निवेशविशिष्टत्वहेतवो गमकाः स्युः ।
अष्टसहस्त्रीतात्पर्यविवरणम्
ऽनाद्यनन्तत्वेन व्याप्त इति हेतोविरुद्धत्वं, तथापि आत्मनिष्ठस्य शरीरपरिग्रहाभावस्य ध्वंसपर्यवसितस्य ग्रहान्न दोष इति बोध्यम् । एतेनेति ईश्वरेऽशरीरत्वस्य कादाचित्कत्वानुमानप्रदर्शनेनेत्यर्थः । कथं वाऽपाणिपादत्वप्रतिपादक एवागमः प्रदेशान्तरे ईश्वरस्य वेदादिप्रणिनीषया ब्रह्मादिशरीरपरिग्रहं प्रतिपादयन् स्वाङ्गैरेव न विरुन्ध्यात् ? (शङ्का) । भूतावेशन्यायेन तस्य ब्रह्मादिशरीरपरिग्रहोपपत्तिरिति चेद्, दूराद् भ्रान्तोऽसि, भूतावेशस्यापि स्वीयवैक्रियशरीरेणात्मान्तरशरीरे भूतप्रवेशरूपस्य तददृष्टहेतुकत्वात्, अन्यथात्मविभुत्वपक्षे सर्वत्र सर्वावेशापत्तेः, तस्माददृष्टहेतुकयोरावेशपरिग्रहयोर्मध्ये नैकतरस्यापीश्वरे सम्भव इति सुष्ठुक्तं श्रीहेमसूरिभिः
धर्माधर्मी विना नाङ्गं, विनाङ्गेन मुखं कुतः ।
मुखाद्विना न वक्तृत्वं, तच्छास्तार: परे कथम् ? ॥ इत्यादि, [वीतरागस्तोत्र ७.१]
अथ आवेशे आविशतोऽदृष्टं न हेतुः किं त्वावेशाधिकरणस्य ततस्तद्गतयोरेव सुखदुःखयोरुत्पादनात् तद्वत् परादृष्टेनेश्वरस्य ब्रह्मादिशरीरग्रहोपपत्तिरिति चेत्, न, आवेशे आविशतोऽप्यदृष्टस्य तद्गतबन्धोदयनिर्जरादिनिर्वाहकस्य हेतुत्वेनोभयादृष्टजन्यत्वव्यवस्थितेः, अन्यथा मुक्तस्यापि क्वचिदावेशापत्तेः, किञ्च आविशत ईश्वरस्यावेशाधिकरणब्रह्माद्यात्मभिन्नत्वे ब्रह्मविष्णशिवैक्यप्रतिपादकश्रतिविरोधोऽपि । न च शबावेशवद ब्रह्मादिशरीरे वेदादिहेतावीश्वरावेशोपपत्तिः, तच्छब्दे तच्छरीरस्येव तददृष्टस्यापि हेतुत्वात्, दृष्टमर्यादातिक्रमे च विनैव शरीरावेशं वेदाधुच्चारेण व्यवहारं निर्वाहयेदिति न किञ्चिदेतत् । सर्वावेशवासनां