________________
अष्टसहस्त्रीतात्पर्यविवरणम्
(भा० ) स्थित्वाप्रवर्तनार्थक्रियादि चेतनाधिष्ठानादिति नियमे पुनरीश्वरादेरपि मा भूत् ।
६४२
अन्यथेश्वरदिक्कालाकाशाश्चेतनाधिष्ठिताः स्युः सर्वकार्येषु क्रमजन्मसु स्थित्वा - प्रवर्तनादर्थक्रियाकारित्वाद्वास्यादिवदिति न्यायात् । तथा चेश्वरोऽपीश्वरान्तरेणाधिष्ठित इत्यनवस्था स्यात्, अन्यथा स्यात्तेनैवास्य हेतोर्व्यभिचारः ।
[भवतां ईश्वरो बुद्धिमान् पुनः निन्द्यसृष्टिं कथं सृजति ? इति जैनाचार्या दोषानारोपयन्ति ।] (भा० ) नायं प्रसङ्गो, बुद्धिमत्त्वादिति चेत्, त एव तर्हि प्रहीणतनुकरणादयः प्राणिनो मा भूवन् ।
यथैव हि बुद्धिमानीश्वरो नाधिष्ठात्रन्तरं चेतनमपेक्षते तथा प्रहीणान् कुब्जादिशरीरकरणादीनपि मा स्म करोत् सातिशयं तद्विदः प्रहीणस्वकार्याकरणदर्शनात् । प्रहीणतनुकरणादयः प्राणिनां
( भा० ) कर्मणो वैचित्र्यादिति चेत्, तर्हि कर्मणामपि
(भा०) तेषामीश्वरज्ञाननिमित्तत्वे समानप्रसङ्गः ।
तान्यपि प्रहीणतनुकरणादिकारणानि मा भूवन्निति ।
(भा०) तदनिमित्तत्वे तनुकरणादेरपि तन्निमित्तत्त्वं मा भूद्विशेषा
भावात् ।
एवं
( भा० ) चार्थक्रियादेरपि ताभ्यामैकान्तिकत्वं ।
कर्मणः स्थाणोश्चार्थक्रियाकारित्वस्थित्वाप्रवर्तनयोश्चेतनाधिष्ठानाभावेऽपि
भावात् ।
अष्टसहस्त्रीतात्पर्यविवरणम्
चानुपदमेव निराकरिष्यामः । ईश्वरादेरपि मा भूदित्यत्र स्थित्वाप्रवर्त्तनादीति योगः । अन्यथेति न च स्ववृत्तिज्ञानविशेष्यत्वं स्वजन्यव्यापारभागित्वं वा चेतनाधिष्ठितमीश्वरादावप्य