________________
द्वितीयो भागः [ परि० १०-का. ९९]
६४३ (भा०) ततः कर्मबन्धविशेषवशाच्चित्राः कामादयस्ततः कर्मवैचित्र्यम्
इति स्थितम् । (भा० ) न हि भावस्वभावोपालम्भः करणीयोऽन्यत्रापि तथैव (भा०) तत्प्रसङ्गानिवृत्तेः ।
यथैव हि कथमचेतनः कर्मबन्धः कामादिवैचित्र्यं कुर्यात् कामादिर्वा चेतनस्वभावः कथमचेतनं कर्मवैचित्र्यमिति तत्स्वभावस्योपालम्भः प्रवर्त्यते तथा कथमचेतनमुन्मत्तकादिभोजनमुन्मादादिवैचित्र्यं विदधीत प्राणिनामुन्मादादिर्वा चेतनः कथमचेतनं मृदादिरूपवैचित्र्यमित्यपि तत्स्वरूपोपालम्भः किमिति प्रसज्यमानो निवर्त्यते ? तथा दृष्टत्वादिति चेत्, तत एव प्रकृतस्वभावोपालम्भोऽपि निवर्त्यतां, तथानुमितत्वात् ।
न चैवमीश्वरस्याप्यनुमितत्वादुपालम्भप्रसङ्गनिवृत्तिः स्यादिति शङ्कनीयं, तदनुमानस्यानेकदोषदुष्टत्वात् । तथा हि-तनुकरणभुवनादेः कार्यत्वादिसाधनं किमेकबुद्धिमत्कारणत्वं साधयेदनेकबुद्धिमत्कारणत्वं वा ? प्रथमपक्षे प्रासादादिनानेकसूत्रधारयजमानादिहेतुना तदनैकान्तिकम् । द्वितीयपक्षे सिद्धसाधनं, नानाप्राणिनिमित्तत्वात्तदुपभोग्यतन्वादीनां, तेषां तददृष्टकृतत्वात् । एतेन बुद्धिमत्कारणसामान्यसाधने सिद्धसाधनमुक्तं, तदभिमतविशेषस्याधिकरणसिद्धान्तन्यायेनाप्य
- अष्टसहस्रीतात्पर्यविवरणम् विरुद्धमितीष्टापत्तिरत्रेति शङ्कनीयम् । कर्तृसाक्षिव्यवस्थया ज्ञानमात्रेणाधिष्ठितत्वासिद्धराद्यस्य व्यापारेऽपि व्यापारान्तरापेक्षायामनवस्थापत्तेश्च द्वितीयस्य निरासादिति भावः । उन्मत्तकादियो जनं धत्तूरचूर्णादिप्रयोगः, मृदादिस्तू पवैचित्र्यं सुवर्णाभिप्रायेण विचित्रां मृदादिप्रचयरचनामित्यर्थः । तेषां तददृष्टकृतत्वादिति तथा च तनुकरणभुवनादिकं सकर्तृकं, बुद्धिमत्कर्तृकं वेत्यादावदृष्टद्वाराऽस्मदादिना सिद्धसाधनमर्थान्तरं वेति भावः । तदभिमतेति
१. भोजनम् इति अष्टसहस्रीसम्मतः पाठः । २. रूप इति अष्टसहस्रीसम्मतः पाठः ।