________________
द्वितीयो भाग: [ परि० १० का ० ९९ ]
मात्मान्तरं, मृत्पिण्डकुलालवदिति चेत्, न ।
एवमपि प्रकृतसाधनव्यतिरेकानिश्चयात् । तथा हि-तनुकरणभुवनादिकं विवादापन्नं बुद्धिमत्कारणपूर्वकं, विरम्यप्रवृत्तेः सन्निवेशविशिष्टत्वादचेतनोपादानत्वादर्थक्रियाकारित्वात्कार्यत्वाद्वा घटवदिति साधनमुच्यते, तस्यात्मान्तरमीश्वराख्यं बुद्धिमत्कारणमन्तरेणाचेतनस्यात्मनोऽनीशस्य धर्माधर्मयोश्चाचेतनयोर्विचित्रोपभोग
६३९
योग्यतनुकरणभुवनादिनिर्मापणकौशलासम्भवात्तन्निमित्तकारणात्मान्तरं बुद्धिमत्कारणमेषितव्यमित्यनेन व्यतिरेकः समर्थ्यते । कुलालमन्तरेण मृत्पिण्डदण्डादेः स्वयमचेतनस्य घटादिनिष्पादनकौशलासम्भववदिति वैधर्म्यदृष्टान्तप्रदर्शनम् । सत्येव कुलाले मृत्पिण्डादेर्घटादिसंपादनसामर्थ्यदर्शनादिति चान्वयसमर्थनमभिधीयते । न चैतदभिधातुं शक्यमन्यथानुपपत्तेरभावात् । बुद्धिमता कारणेन विना विरम्यप्रवृत्त्यादेरसम्भवादन्यथानुपपत्तिरस्त्त्येवेति चेत्, न,
( भा० ) तस्यापि वितनुकरणस्य तत्कृतेरसम्भवात्,
कालादिवत् ।
( भा० ) तादृशोऽपि निमित्तभावे कर्मणामचेतनत्वेऽपि तन्निमित्तत्वमप्रतिषिद्धं, सर्वथा दृष्टान्तव्यतिक्रमात् ।
यथैव हि कुलालादिः सतनुकरणः कुम्भादेः प्रयोजको दृष्टान्तस्तनुकरणभुवनादीनामशरीरेन्द्रियेश्वरप्रयोजकत्वकल्पनया व्यतिक्रम्यते, तथा कर्मणामचेतनानामपि तन्निमित्तत्वकल्पनया बुद्धिमानपि दृष्टान्तो व्यतिक्रम्यतां, विशेषाभावात् ।
स्यान्मतं—‘सशरीरस्यापि बुद्धीच्छाप्रयत्नवत एव कुलालादेः कारकप्रयोक्तृत्वं दृष्टं, कुटादिकार्यं कर्तुमबुद्ध्यमानस्य तददर्शनाद्, तद्बुद्धिमतोऽपीच्छापाये तदनुपलब्धेस्तदिच्छावतोऽपि प्रयत्नाभावे तदनुपलम्भात् तद्वद्वितनुकरणस्यापि अष्टसहस्त्रीतात्पर्यविवरणम्
कारणस्यापि, वितनुकरणस्य = तनुकरणरहितस्य, तत्कृतेः = करणभुवनादिकृतेः । कालादिवदिति टीकाकृतोक्तो दृष्टान्तस्तादृशोऽपीत्यग्रेतनभाष्यफक्किकयाऽन्वेति । तद्वद्विनुकरणस्यापीति प्रयोगश्चात्र कार्यं सकर्तृकं कार्यत्वात् घटवदित्याकार एव, पक्षतावच्छेदकं च प्रागभावप्रतियोगित्वं, न तु कृतिसाध्यत्वादिकमिति न सिद्धसाधनं, पक्षतावच्छेदका