________________
४८०
अष्टसहस्त्रीतात्पर्यविवरणम्
( भा० ) विरोधस्य सर्वथाप्यपरिहार्यत्वात् ।
संविदि वेद्यवेदकाकारभेदेऽपि तादात्म्योपगमादन्यथैकज्ञानत्वविरोधात् संविदाकारवेद्याद्याकारविवेकयोः प्रत्यक्षपरोक्षयोर्भेदेऽपि संविदेकत्वाङ्गीकरणात्, कथञ्चित्तादात्म्याभावे सन्ताननियमनिबन्धनस्य स्वभावविशेषस्यानुपलब्धेः ।
( भा० ) तत्सन्तानपेक्षया प्रेत्यभावादि मा मस्त, क्षणक्षयैकान्ते सन्तानस्यैव साधयितुं दुःशक्यत्वात् । ( भा० ) ज्ञानज्ञेययोः प्रतिक्षणं विलक्षणत्वात् ।
स एवाहं तदेवेदमिति प्रत्यभिज्ञानादनुस्मरणादभिलाषादेश्च सन्ताननियमसिद्धिरिति चेत्, न तस्यैवासम्भवात् । सर्वथा वैलक्षण्ये पुंसोऽर्थस्य च ।
(भा०) न वै प्रत्यभिज्ञानादिः पुरुषान्तरवदर्थान्तरवच्च । ततः कर्मफलसम्बन्धोऽपि नाना सन्तानवदनियमान्न युक्तिमवतरति ।
तदनादिवासनावशात्तन्नियम इति चेत्, न कथञ्चिदप्यतादात्म्ये कार्यकारणक्षणयोस्तदघटनात्तद्वत् ।
( भा० ) तत्सूक्तं क्षणिकपक्षो बुद्धिमद्भिरनादरणीयः सर्वथार्थक्रियाविरोधान्नित्यत्वैकान्तवत् ।
न चार्थक्रिया कार्यकारणरूपा सत्येव कारणे स्यादसत्येव वा । ( भा० ) सत्येव कारणे यदि कार्यं, त्रैलोक्यमेकक्षणवर्त्ति स्यात् कारणक्षणकाले एव सर्वस्योत्तरोत्तरक्षणसन्तानस्य भावात् ।
I
( भा० ) ततः सन्तानाभावात्पक्षान्तरासम्भवाच्च इति स्थितमेव
अष्टसहस्त्रीतात्पर्यविवरणम्
उक्तप्रकारमेव समर्थयति वृत्तिकृत् संविदीत्यादिना । तदनादीति उत्तरचित्तोत्पत्तिकारणीभूतप्राक्तनचित्तक्षणाख्यवासनावशात्तस्य प्रत्यभिज्ञानादेर्नियम इत्यर्थः । तद्वत्= नानासन्तानवत् पक्षान्तरासम्भवाच्चेति असति कारण इति पक्षान्तरस्य चासम्भवादित्यर्थः । तेन न द्वितीयोत्तराभावान्यूनत्वं, यदि पुनरसत्येव कारण इत्यादिना वृत्तौ तु