________________
द्वितीयो भागः [परि०३-का० ४२]
४८१ साधनं सर्वथार्थक्रियाविरोधादिति, साध्यं च क्षणिकपक्षो बुद्धिमद्भिरनादरणीय इति, प्रत्यभिज्ञाद्यभावात्प्रेत्यभावाद्यसम्भव इति च, अस्मिन्पक्षे प्रयासाभावात् । यदि पुनरसत्येव कारणे कार्यं तदा कारणक्षणात्पूर्वं पश्चाच्चानादिरनन्तश्च कालः कार्यसहितः स्यात् कारणाभावाविशेषात् । तदविशेषेऽपि कार्यस्य स्वयं नियतकालत्वे नित्यस्य सर्वदा भावाविशेषेऽपि तत्स्यादित्युक्तम् ॥४१॥
किं च क्षणिकपक्षे न तावत्सदेव कार्यमुत्पद्यते स्वमतविरोधादुत्पत्त्यनुपरमप्रसङ्गाच्च
यद्यसत् सर्वथा कार्यं तन्मा जनि खपुष्पवत् । मोपादाननियमो भून्माश्वासः कार्यजन्मनि ॥४२॥
पर्यायाकारेणेव द्रव्याकारेणापि सर्वथा यद्यसत्कार्यं तदा तन्मा जनिष्ट, खपुष्पमिव । तथा हि-यत् सर्वथाप्यसत् तन्न जायमानं दृष्टं, यथा खपुष्पम् । तथा च परस्य कार्यम्, इति व्यापकविरुद्धोपलब्धिः । कार्यत्वं हि कथञ्चित्सत्त्वेन व्याप्तम् तद्विरुद्धं सर्वथाप्यसत्त्वम् । प्रतीतं हि लोके
(भा०) कथञ्चित्सतः कार्यत्वमुपादानस्योत्तरीभवनात् । सदेव कथमसत् स्याद्विरोधादिति न चोद्यं, (भा०) असकृदपि विरुद्धधर्माध्यासानिराकृतेः, चित्रवेदनवदित्युक्तप्रायम् ।
अष्टसहस्रीतात्पर्यविवरणम् भाष्योक्तपक्षान्तरस्यैव स्फुटीकारान्न पौनरुक्त्यम् ॥४१॥
'उपादानस्योत्तरोद्भवनात् मृत्पिण्डादेर्घटादिकार्यत्वेन परिणमनादित्यर्थः । भाष्ये सकृदपीति अपिरेवकारार्थः, सकृदेव विरुद्धधर्माध्यासस्यानिराकरणात्, तथा च वारंवारं तन्निराकरणादित्यर्थः । चित्रवेदनवदिति चित्रवेदने ह्येकत्वानेकत्वयोविरोधो वारंवारमेव
१. उपादानस्योत्तरीभवनाद् इति अष्टसहस्रीसम्मतः पाठः ।