SearchBrowseAboutContactDonate
Page Preview
Page 80
Loading...
Download File
Download File
Page Text
________________ ४८२ अष्टसहस्त्रीतात्पर्यविवरणम् (भा० ) तथा चान्वयव्यतिरेकप्रतीतेर्भावस्वभावनिबन्धनायाः किं फलमपलापेन ? तदन्यतरनिराकृतावुभयनिराकृतिरभेदात् । ___ कथमन्वयव्यतिरेकयोरभेद इति चेत्, कारणस्य भावे भावस्यैव तदभावेऽभावरूपत्वात् । न हि कारणस्याभावेऽभाव एव भावे भावो न प्रतीयते यतस्तदभेदो न स्यात् । कथं भावस्वभावनिबन्धनान्वयव्यतिरेकप्रतीतिस्तस्या भावाभावस्वभावनिबन्धनत्वादित्यप्यनाशङ्कनीयं, स्वभावान्तरस्यैवाभावव्यवहारार्हत्वात् । [व्यतिरेकज्ञानं भावस्वभावनिमित्तकं कथं भवेत् ? ] पावकविविक्तप्रदेशविशेषस्यैव पावकाभावस्य धूमरहितदेशस्य च धूमाभावस्य प्रतीतिगोचरत्वात्, पावकाभावे धूमाभावस्य च व्यतिरेकलक्षणत्वात् सिद्धं व्यतिरेकप्रतीतेर्भावस्वभावनिबन्धत्वमन्वयप्रतीतेरिव इति निरारेकं, नीरूपस्याभावस्य प्रतिक्षेपात् । [सर्वथासदेव कार्यरूपेण भवतीति मान्यतायां का हानिः ? तत्स्पष्टयन्ति ।] न च सर्वथाप्यसत: कार्यत्वेऽन्वयव्यतिरेकप्रतीति: कार्यकारणभावव्यवस्थाहेतुः कारणाभावे एव कार्यस्य भावाद्भावे चाभावात् इति निवेदितप्रायम् । (भा०) तन्नासत्कार्यं, सर्वथाप्यनुत्पादप्रसङ्गात्, खकुसुमवद् । इति व्यवतिष्ठते, कार्यत्वकथञ्चित्सत्त्वयोरेव व्याप्यव्यापकभावस्य प्रसिद्धेस्तथाप्रतीतेः । तत एव (भा०) न तादृक्कारणवत्, सर्वथाऽभूतत्वाद्वन्ध्यासुतवत् कथञ्चिदस्थितानुत्पन्नत्वादिति योज्यम् । न हि सर्वथाप्यसत्कार्यमभूतं न भवति, यतः कथञ्चिदप्यस्थितमनुत्पन्नं च न स्यात्, कथञ्चित्सत एव स्थितत्वोत्पन्नत्वघटनाद्विनाशघटनवत् सत उत्पादव्ययध्रौव्ययुक्तत्वलक्षणत्वात् । न चोत्पादादित्रयरहितं वस्तु समस्ति यतः कारण अष्टसहस्रीतात्पर्यविवरणम् निराकृतः, सैव रीतिः सत्त्वासत्त्वयोः प्रतीयतामित्यनेनोक्तम्, तत एव कार्यत्वकथञ्चित्सत्त्वयोर्व्याप्तेरेव । भाष्ये न तादृक्=सर्वथाऽसत्, कारणवत्=कारणा
SR No.009090
Book TitleAshtasahastritatparya Vivaranam Part 2
Original Sutra AuthorN/A
AuthorVairagyarativijay
PublisherPravachan Prakashan Puna
Publication Year2004
Total Pages294
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & Philosophy
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy