________________
४८३
द्वितीयो भागः [ परि०३-का. ४२] वत्स्यात् निरन्वयविनाशे तत्कारणस्य तद्भावायोगात् कार्यस्य तद्भावायोगवत् ।
[असत्कार्ये यदि उत्पादादित्रयं न घटते तहि सत्यपि प्रभवलक्षणे उत्पादादित्रयं कथं सिद्धमिति प्रश्ने सति जैनाचार्याः समादधते ]
(भा०) सत्यपि प्रभवलक्षणे पूर्वपूर्वस्योत्तरीभवनं मृत्पिण्डस्थासकोशकुशूलादिषु सकललोकसाक्षिकं
सिद्धम् । तन्न,
(भा०) स्वमनीषिकाभिः सदृशापरापरोत्पत्तिविप्रलम्भानवधारणावक्तृप्तिमारचयतां मोपादाननियमो भूत्, कारणान्तरवत् तदन्वयाभावाविशेषात् , सर्वथा वैलक्षण्यात् ।
न हि मृत्पिण्डस्थासादीनां तन्तुपटादीनां च सर्वथा वैलक्षण्येनान्वयाभावाविशेषेऽपि मृत्पिण्ड एवोपादानं स्थासस्य, स्थास एव कोशस्य, कोश एव कशलस्य, कशल एव घटस्य, न पनस्तन्त्वादयः स्थासादीनामिति नियमनिबन्धनं किमप्यस्ति, यतः पूर्वपूर्वस्योत्तरीभवनं मृत्पिण्डस्थासादिषु सकललोकसाक्षिकं न भवेत् । वैलक्षण्यानवधारणं निबन्धनमिति चेत्, तद्यदि सदृशापरापरोत्पत्तिविप्रलम्भात्प्रतिपत्तृणामिष्यते तदा समसमयवतितिलादीनां सन्तत्योत्पद्यमानानां वैलक्षण्यानवधारणं स्यात् । ततश्च परस्परभिन्नसन्ततीनामप्युपादानत्वं प्रसज्येत विशेषाभावात् ।
[बौद्धमते एकसन्ताने कार्यकारणभावो यदि घटेत तहि भिन्नसन्तानेष्वपि भविष्यति उभयत्रान्वयाभावसमानत्वात् ।] यथैव ह्येकसन्तानवर्तिनः सदृशस्यापरापरस्योत्पत्तिः सादृश्यमभावाव्यवधानं च बाह्यं, विप्रलम्भस्त्वनाद्यभेदवासनाहितमभेदज्ञानमन्तरङ्गं वैलक्षण्यानवधारणस्य कारणं
- अष्टसहस्रीतात्पर्यविवरणम्
पेक्षोत्पत्तिकं। वैलक्षण्यानवधारणं निबन्धनमिति मृत्पिण्डस्थासकोशकुशूलादिनियतोपादानप्रवृत्तिनिबन्धनं नान्वयः, किन्तु वैलक्षण्यस्य भेदस्यानवधारणमिति सौगताशङ्का । तत्राह-इति चेत् तद् यदीत्यादि सदृशापरापरोत्पत्तिविप्रलम्भात्=सदृशापरापरोत्पत्तिदोषसध्रीचीनानादिवासनाप्रसूताभेदज्ञानादित्यर्थः । उपादानत्वं प्रसज्येतेति कार्यागृहीतभेदक्षणस्योपादानत्वादित्यर्थः, अभावाव्यवधानं चेति अन्तराविसदृशक्षणोत्पत्ति